40

स्वास्थ्य बाधक कारणोंका परिहार ।

अत्यम्लरूक्षाधिकभोजनाति--व्यायामवातातपमैथुनानि ।
नित्यं तथैकस्य रसस्य सेवा । वर्ज्यानि दोषावहकारणानि ॥ ४६ ॥

भावार्थः--The Hindi commentary was not digitized.

वातादिदोषों के कथन

देहक्रमं साधु निरूप्य रोगान् वक्ष्यामहे सूत्रविधानमार्गात् ।
वातः कफः पित्तमिति प्रतीता दोषाः शरीरे खलु संभवंति ॥ ४७ ॥

भावार्थः--The Hindi commentary was not digitized.

{??}तादि दोषलक्षण ।

वातः कटू रूक्षतरश्चलात्मा पित्तं द्रवं तिक्ततरोष्णपीतम् ।
स्निग्धः कफः स्वादुरसोऽतिमंदः स्वतो गुरुः पिच्छिलशीतलः स्यात् ॥ ४८ ॥

भावार्थः--The Hindi commentary was not digitized.

कफका स्थान ।

आमाशये वक्षसि चोत्तमांगे कंठे । च संधिष्वखिलेषु सम्यक् ।
स्थित्वा कफः सर्वशरीरकार्यं कुर्यात्स संचारिमरुद्वशेन ॥ ४९ ॥

भावार्थः--The Hindi commentary was not digitized.