अनेकान्तवादनिरासः
इदानीमार्हतमतं विचार्यते;--इहामी दिगम्बराः द्रव्य
पर्यायरूपेण उत्पत्तिस्थितिप्रलयात्मकं भावग्रामं वर्णयन्ति ।
तत्रावस्थासु सकलासु अनुगतस्वभावं द्रव्यमाचक्षते, यथा
केयूरकटककुण्डलाद्यवस्थास्वनुयायि सुवर्णम् । सत्यद्रव्यात्मनि
उत्पादव्ययधर्मकाः पर्यायाः । यथा सत्यपि द्रव्ये जायमाना
व्ययमानाश्च केयूरादयः । यथा घटं भञ्जयित्वा मौलिः क्रियते
तथा घटो नश्यति मौलिरुत्पद्यते, सुवर्णं तु नोदेति न व्येति,
इति उत्पादव्ययध्रौव्यात्मकं वस्तु । यदाह--
इति । विरुद्धधर्माध्यासस्य सर्वत्र भेदलक्षणत्वादिति । न
ह्येकस्य त्रैरूप्यमुपपद्यते । यदिह सत्यपि विरुद्धधर्माध्यासे
82 द्रव्यपर्याययोरभेदोऽभ्युपगम्यते तदा घटपटयोरप्यभेदोऽभ्यु
पगन्तव्यः । अथ मन्यसे द्रव्यपर्याययोः परस्परतोऽनैका
न्तिको भेदो अभेदो वा अभ्युपगम्यते, किं तु देशकालस्व
भावाना21 मभेदात् उतोच्यते सङ्ख्यासंज्ञालक्षणार्थभेदात् भेदस्तु
वर्ण्यते । न हि कटकादीनामन्यो देशोऽन्यं एव सुवर्णस्य च!
न च कटकादयः सुवर्णाद्भिन्नकालाः! नापि कटकादीनां
सुवर्णस्य च स्वभावे नानात्वमस्ति! अतो देशकालस्वभावा
नामेकत्वादेकता द्रव्यपर्याययोः । एकं द्रव्यं बहवः पर्याया इति
सङ्ख्यासंज्ञाभेदः । अनुवृत्तिलक्षणं द्रव्यं । व्यावृत्तिलक्षणाः
पर्यायाः इति लक्षणभेदः । केयूरकटकाभ्यां च कफोणि पाणि
भूषणं क्रियते, सुवर्णेन तु केयूरादिकं तदेवेति कार्यमपि भिद्यते
द्रव्यपर्याययोः । अतः 22संख्यासंज्ञालक्षणप्रयोजनभेदात् भिन्नत्वं
द्रव्यपर्याययोरिति ॥
अत्रैवं चिन्त्यते; यदि तावत् द्रव्यपर्याययोः स्वभावा
भेदेन अभेदमभिधत्ते तदा द्रव्यपर्याययोरेकरूपतैव तात्त्वि
कीति संख्यादिभेदाद्भिन्नरूपता कल्पनामात्रकल्पिता स्यात् ।
83
न हि ययोः स्वभावाभेदः तयोरन्यथा पारमार्थिको भेदः
सम्भवी । भेदे च तयोरभिधीयमाने स्वभावभेद एव तयोरभ्यु
पगतो भवेदिति न तयोः स्वभावाभेदेनाभेदः सिध्येत् । नच
तेनैव स्वभावेन भेदश्चाभेदश्च । नचान्येन स्वाभावेन भेदोऽन्येना
भेद इत्यपि प्रेक्षावतो वक्तुमुचितम्! स्वभावभेदाभेदाभ्यां
भेदाभेदाभ्युपगमप्रसङ्गात् । यदि चान्येन स्वभावेन भेदोऽन्येन
च स्वभावेनाभेद इत्यभ्युपगम्यते तदाऽन्यद्रव्यपर्यायाख्यमेकं
वस्तु तयोरन्ये एव चान्योन्यभिन्ना द्रव्यपर्याया इति नैकमने
कात्मकं वस्तु वस्तुतः समर्थितं स्यात् । स्वभावेन चाभेदे
देशकालाभेदादभेद इति किमनयाऽनुयुक्तघोषणया । ययोर्हि
स्वभावेन भेदो न तयोर्देशकालाभेदादप्यभेदो यथा रूपरसयोः ।
यदि च पर्यायाणां द्रव्यस्वभावेनाभेदः, तदा पर्यायाणां द्रव्यात्म
न्यनुप्रवेशात् द्रव्यमेव केवलमवशिष्यत इति संख्येयभेदाभावात्
संख्याबाहुल्यं नास्तीति पर्याया इति बहुवचनं न प्राप्नोति ।
संज्ञिभेदाभावाच्च न तदांश्रयः संज्ञाभेदः । अथ पर्यायेभ्यो
द्रव्यस्वभावेनाभेदः, तदा द्रव्यस्य पर्यायात्मन्यनुप्रवेशात् पर्याया
एव केवलभवशिष्यन्त इति संख्यैकत्वाभावात् संख्यैकत्वं
नास्तीति द्रव्यमित्येकवचनं न प्राप्नोति ॥
नचैकानेकवचनप्रयोगमात्राद्वस्तूनामेकत्वानेकत्वे; षण्णगरी
दारा इति विनाऽपि भेदाभेदाभ्यां बहुवचनैकवचनप्रयोगदर्श
नात् । नच संज्ञिनानात्वमात्रेण संज्ञानानात्वम्; एकस्यापि
84
तुरङ्गस्य हरिहयाश्वसप्त्यादिसंज्ञाबाहुल्यदर्शनात् । सति च
स्वभावाभेदे लक्षणभेदोऽप्यनुपपत्तिमानेव । न हि द्रव्यपर्या
ययोरेकत्वे सत्यनुवर्तते द्रव्यं तदात्मकं च पर्यायं रूपं व्यावर्तत
इत्युक्तम् । द्रव्यादिपर्यायाणामभेदे तस्मिन्ननुवर्तमाने पर्याया
अप्यनुवर्तेरन् । अन्यथा हि तदेवानुवर्तते नानुवर्तते चेति स्यात् ।
पर्यायेभ्यश्च द्रव्यस्याभेदे तेषु व्यावर्तमानेषु द्रव्यमपि व्यावर्तेत;
अन्यथा हि त एव तथैव व्यावर्तन्ते न व्यावर्तन्ते चेति स्यात् ।
न चैतदनुन्मत्तो ब्रूयात् । स्वभावाभेदं च द्रव्यपर्याययोर्वर्णयता
द्रव्यस्य कार्यं यत्तत् पर्यायजातस्य; यच्च पर्यायजातस्य तद्द्रव्य
स्येति स्फुटतरमावेदितं भवति । तथा च सति द्रव्यपर्याययोः
कार्यभेदो न सम्भवत्येव प्रागेव तन्निबन्धनो भेदः । एकस्याप्य
नेककार्यकारित्वदर्शनान्न कार्यभेदाद्भेदः सिध्यति । न हि
मलयजमृगाङ्कादयो युगपद्बहूनां बहूनि विज्ञानानि जनयन्तोऽपि
स्वभावनानात्वमनुभवन्ति! एक एव प्रदीपः करजलालोकादिक
मनेकधा कुर्वन्नवलोक्यत इति न कार्यभेदादपि भेदव्यवहारो
ज्यायान् । एतेन हि तअन्यदपि प्रत्युक्तम् । यदाह कुमारिलः--
इति । यदि हि यदेव वस्तुत्वं तदेव वेदचाण्डालालापयोः
ब्राह्मणचाण्डालयोरपि; तथा वेदचाण्डालालापयोः ब्राह्मण
चाण्डालयोश्चैकत्वं स्यात् । अथ वस्तुत्वेनाभेदेऽपि प्रकारान्तरेण
भेद इष्यत इति चेत्; प्रकारान्तरं तद्वतो वस्तुरूपादनर्था
85
तरं बा स्यादर्थान्तरं वा ? अनर्थान्तरत्वे कथं तदाश्रयो भेदः ।
अर्थान्तरत्वे स्वरूपेणापि भेदात् भेद एव विशीर्यते । तस्मात् सर्व
एव भावाः परस्परव्यावृत्तमूर्तयो न केनचिदंशेन मिश्रा
भवन्ति । तदुक्तम्--
कृतिरियं जितारिपादानाम् ।
एकत्वंविषयम्...॥