519
शक्तिरस्ति स्फोटान्यथानुपपत्तेः इति तद्रहिता4993र्थापत्तिः प्रमाणान्तरं स्यात्, तथा च प्रमा
णसंख्याव्या4994घातः । नियमवतोऽर्थाद् अर्थान्तरप्रतिपत्तेरविशेषात्त4995योरभेदे स्वसाध्या
विनाभाविनोऽर्थाद् अर्थान्तरप्रतिपत्तरेत्रा4996प्यविशेषात् कथमनुमानादर्थापत्तेर्भेदः स्यात् ?
असिद्धञ्चात्र अविनाभावस्य गम्यविशेषणत्वम्; गृहे चैत्राभावे एव बहिस्तत्सद्भाव
गमके तस्य4997विशेषणत्वसम्भवात् । नहि तस्य4998 त4999द्विशेषणत्वे कश्चिद्दोषः सम्भवति येन गम्य
विशेषणता कल्प्येत । न च स5000र्वस्यामर्थापत्तौ गम्यविशेषणता अविनाभावस्य सम्भवति,
प्रत्यक्षादिप्रभवाऽर्थापत्तौ गमकस्यैव स्फोटादेः अविनाभावविशेषणत्वसंभवात् । न खलु तत्र
गम्यायाः शक्तेः स्फोटं विनाऽनुपपत्तिः सम्भवति; तम5001न्तरेणापि अस्याः5002 सद्भावाभ्युपगमात् ।
यच्चान्यदुक्त5003म्–पक्षधर्मतानिश्चयसमये साध्यस्य नियतदेशतया अत्रा5004ऽप्रतीतेः
अनुमानाद्वैलक्षण्यम् इत्यादि; तदप्युक्तिमात्रम्, गृहाभावाख्यधर्म्यवच्छेदेन बहिर्भावस्य
प्र5005तीतेः, ध5006र्मी एव हि देशशब्देन उच्यते, तदवच्छेदश्च अत्रास्त्येवेति न ततस्तद्वैलक्षणयम् ।
यदपि सम्बन्धग्रहणाभावाच्च इत्याद्युक्तम्5007, त5008दपि न; यतः सर्वत्र सम्बन्धग्रह
णस्य ऊहाख्यप्रमाणप्रसादादेव प्रसिद्धेः इत्युक्तम्5009 । अतश्च देशान्तराणामानन्त्यान्न न
तत्र नास्तित्वेन स5010म्बन्धग्रहः इत्याद्ययुक्तम्, अनियतसाध्यसाधनव्यक्तिसम्बन्धग्रहण
स्वभावत्वात्तस्य5011 । कथम5012न्यथा धूमस्य अनग्निव्यतिरेकनिश्चयः तत्रापि अस्य दोषस्याऽ
विशेषात् ? न च भूयोदर्शनावगम्यमानाऽन्वयमात्रेण गमकोऽ5013सौ5014 युक्तः, अनिश्चित
व्यतिरेकस्य साध्यनिश्चयाऽहेतुत्वात् । न च सत्तामात्रेणासौ तद्धेतुः, अन्वयवद् व्यति
रेकस्यापि निश्चितस्यैव अनुमानाङ्गतोपपत्तेः ।
किञ्च, अ5015सर्वगतद्रव्यस्य चैत्रादेः नियतदेशवृत्तेः5016 त5017दन्यदेशे प्रतिनियते प्रत्यक्षतः,
-
शक्तिर्वह्नौ स्फोटश्च करतलादौ इति न स्फोटस्य पक्षधर्मता –आ॰ टि॰ ।
↩ -
पक्षधर्मत्वसहिततद्रहितयोरर्थापत्त्योश्चेदभेद, तदाऽनुमानार्थापत्त्योरपि तथास्तु –आ॰ टि॰ । षडेव
↩
प्रमाणानीति प्रमाणसख्याव्याघात सप्तमस्य प्रसिद्धेः । -
पक्षधर्मत्वसहित-तद्रहितार्थापत्त्योः ।
↩ -
अर्थापत्तावपि ।
↩ -
गमकस्य विशेषणमविनाभाव –आ॰ टि॰ ।
↩ -
अविनाभावस्य ।
↩ -
गमक
↩
विशेषणत्वे । -
पूर्वस्यामर्थाप– ब॰ ।
↩ -
स्फोटादिकं विनापि ।
↩ -
शक्ते ।
↩ -
पृ॰ ५११ पं॰ ६ ।
↩ -
अर्थापत्ती ।
↩ -
प्रतीतिः आ॰ ।
↩ -
घर्मे बहिर्देश– ब॰ ।
↩ -
पृ॰ ५१० पं॰ १५ ।
↩ - ↩
-
तर्कनिरूपणप्रसङ्गे, पृ॰ ४२६ ।
↩ -
सम्बन्धग्रहणमित्या– ब॰ ।
↩ -
ऊहस्य ।
↩ -
तुलना–
↩
अनग्निव्यतिरेकनिश्चये च धूमस्य भवता का गति । या तत्र वार्त्ता सैवेहापि नो भविप्यति । न च
भूयोदर्शनावगम्यमानान्वयमात्रैकशरणतया यस्य वस्त्वन्तराभावो गम्यस्तस्यैव दुष्यति । मम त्वदृष्टि
मात्रेण गमका सहचारिण ॥ मी॰ श्लो॰ अर्था॰ श्लो॰ ४० इति कथयितुमुचितम्, अनिश्चितव्यति
रेकस्य साध्यनिश्चयाभावादिति पक्षधर्मान्वयव्यतिरेकोऽपि नागृहीतोऽनुमानाङ्गम् । –न्यायमं पृ॰ ४५ । -
–सौ अनि– श्र॰ ।
↩ -
धूमो हेतु ।
↩ -
तुलना–असर्वगतस्य द्रव्यस्य नियतदेशवृत्तेरक्लेशेन तदितरदेशनास्तित्वा
↩
वधारणम् । –न्यायमं॰ पृ॰ ४५ । न्यायवा॰ ता॰ पृ॰ ४३ । दृष्टमेतत्–
अव्यापकं द्रव्यमेकत्रास्ति तदन्यत्र नास्तीति यथा प्राचीप्रतीच्योरेकत्रोपलभ्यमान सविताऽन्यत्र न भव
तीतीदं दर्शनबलेनैवमवधार्यते । –प्रश॰ कन्द॰ पृ॰ २२३ । -
परिमितदेशवृत्तित्वादिति हेतो ।
↩ -
तदन्यदेशे प्रतिनियते च अनु– ब॰ ।
↩