0
कल्याणावसथः सुवर्णरचितः विद्याधरैः सेवितः,

तुङ्गाङ्गो विबुधप्रियो बहुविधश्रीको गिरीन्द्रोपमः ।

भ्राम्यद्भिर्न बृहस्पतिप्रभृतिभिः प्राप्तं यदीयं पदम्,

न्यायाम्भोनिधिमन्थनः चिरमसौ स्थेयात् प्रबन्धः परः ॥

–प्रभाचन्द्रः