213
प्रमाणप्रवेशे द्वितीयो विषयपरिच्छेदः ।
यत्रार्थे प्रमितेः प्रवृत्तिरखिलव्यामोहविच्छेदतः,
तद्रूपप्रतिपादनार्थममलः प्रारभ्यते प्रक्रमः ।
मिथ्यैकान्तमहान्धकारनिचयप्रच्छादितार्थं स्फुटम्,
स्याद्वादाऽप्रतिमप्रचण्डतरणेर्नान्यः क्षमो द्योतितुम् ॥ १ ॥