603 क्वचिदविसंवादस्य अन्यथानुपपत्तेः सिद्धं प्रामाण्यमिति ।


कारिकाव्याख्यानम्–


पुंसो यः चित्रोऽभिसन्धिः सरागा अपि वीतरागवच्चेष्टन्ते6270
इत्यभिधानात्, तस्मात् वाक् चेद् यदि अर्थव्यभिचारिणी
कार्य दृष्टं विजातीयाद्
अभिमतकारणजातिपरिहारेण जात्य
न्तरादपि । ततः कि जातमित्यत्राह–शक्यम् इत्यादि । शक्यं शक्तं कारण
भेदि
कारणविशेषं गमयितुं किम् ? नैव शक्तमित्यर्थः । कार्यग्रहणमुपलक्षणं स्वभा
वस्य, अतोऽनुमानस्याप्यभावः इत्यभिप्रायः ।


विवृतिविवरणम्–


कारिकां विवृण्वन्नाह–श्रुतेः इत्यादि । श्रुतेः शब्दस्य बहुलं प्राचुर्येण बहिरर्थावि
संवादेऽपि
न केवलं तदभा6271वे, तदर्थेन6272 बहिरर्थेन प्रतिबन्धस्य तादात्म्य
तदुत्पत्तिलक्षणस्य असिद्धेः कारणात् । कथंभूतायाः श्रुतेः इत्याह–
वक्त्रभिप्रायानुविधायिन्याः । क्व6273 किमित्याह–सर्वत्र तदर्थानाश्वासः बहिरर्थाना
श्वास इति एवं चेत् अत्राह–उक्तम् इत्यादि । अत्र पूर्वपक्षे उक्तमुत्तरम्6274 । कि तदि
त्याह–तादात्म्यतदुत्पत्तिभ्यां विनापि परोक्षार्थप्रतिपत्तेः कारणात् अविसंवादः
श्रुतेः इति एतत् । अपि च इत्यादिना परपक्षेपि तद्दूपणं योजयति । अपि च किञ्च
अयं दृश्यमानो भावः वृक्षः शिंशपात्वात्, अत्र पर्वते अग्निः धूमात् इति वा
यदनुमानं तत्र कथं नैव आश्वासः ? कुत एतदित्याह–क्वचिद् इत्यादि । क्वचिद्
देशविशेषे लताचूतादेः, आदिशब्देन लताबदर्यादिपरिग्रहः तस्या उपलब्धेः कार

  1. तुलना–चैतसेभ्य सम्यक्मिथ्याप्रवृत्तयस्ते चातीन्द्रियस्वप्रभवकायवाग्व्यवहारानुमेया
    स्यु व्यवहाराश्च प्रायशो बुद्धिपूर्वमन्यथापि कर्तु शक्यते पुरुषेच्छावृत्तित्वात्तेषा च चित्राभिसन्धित्वात् ।
    तदय लिङ्गसकरात् कथमनिश्चिन्वन् प्रतिपद्येत ? दुर्बोधत्वात् दुप्राप्यत्वादन्यगुणदोषनिश्चायकाना
    प्रमाणानाम् चैतसेभ्य इत्यादिना व्याचष्टे । चेतसि भवा चैतसा गुणदोषा । चैतसेभ्य गुणेभ्यः
    कृपावैराग्यबोधादिहेतुभ्य सम्यक्प्रवृत्तय यथार्थप्रवृत्तय, चैतसेभ्यो दोषेभ्य रागादिभ्यो मिथ्याप्रवृत्तयो
    विपरीतप्रवृत्तयो भवन्ति । ते चेति परेषा चैतसा गुणदोषा चेतोधर्मत्वेनातीन्द्रिया ततो न प्रत्यक्षगम्या ।
    किन्तु स्वस्माद् गुणदोषरूपात् प्रभव उत्पादो यस्य कायवाक्कर्मण तेन कार्यलिङ्गेनानुमेया । तच्च
    नास्ति । यस्माद् व्यवहाराश्च कायवाक्कर्मलक्षणा प्रायशो बाहुल्येन बुद्धिपूर्वमिति कृत्वा प्रतिसख्याने
    अन्यथापि कर्त्तु शक्यन्ते । तथाहि सरागा अपि वीतरागवत् आत्मान दर्शयन्ति वीतरागाश्च सरागवत् ।
    किं कारणम् ? पुरुषेच्छावृत्तित्वात् व्यवहाराणा तेषा चेति पुसा चित्राभिसन्धित्वात् चित्राभिप्रायत्वात्
    ततो यथेष्टं व्यवहारा प्रवतन्ते इति नास्ति गुणदोषप्रभवाणा व्यवहाराणा विवेकनिश्चय । तदिति
    तस्मादयमनुमाता पुमान् लिङ्गमकरात् लिङ्गव्यभिचारादनिश्चिन्वन् क्षीणदोष कथमागमस्य कर्तार
    प्रतिपद्येत नैवेति निगमनीयम् ।
    प्रमाणवा॰ स्ववृ॰, टी॰ १ । २२२ । यथा रक्तो ब्रवीति तथा विर
    क्तोऽपि । एव न वचनमात्रात्, नापि विशेषात् प्रतिपत्ति अभिप्रायस्य दुर्बधित्वात् व्यवहारसकरेण
    सर्वेषा व्यभिचारात् । विरक्तो हि रक्तवच्चेष्टते रक्तोऽपि विरक्तवदित्यभिप्रायो दुर्बोध
    प्रमा
    णवा॰ स्ववृ॰, टी॰ १ । १४ ।
    क्षीणावरण समधिगतलक्षणोऽपि सन् विचित्राभिसन्धिरन्यथा देशये
    दिति विप्रलम्भशकी
    प्रमाणसं॰ पृ॰ ११६ । अष्टसह॰ पृ॰ ७१ । तत्त्वार्थश्लो॰ पृ॰ ९ । सूत्रकृ
    तागटी॰ पृ॰ ३८४ । लघी॰ ता॰ पृ॰ ४९ ।

  2. –भावे तेन बहि– आ॰, ब॰

  3. –न प्रति– श्र॰

  4. क्वचित्किमि– श्र॰

  5. पृ॰ ४३५ ।