विवृतिविवरणम्–


कारिकां विवृण्वन्नाह–श्रुतेः इत्यादि । श्रुतेः शब्दस्य बहुलं प्राचुर्येण बहिरर्थावि
संवादेऽपि
न केवलं तदभा6271वे, तदर्थेन6272 बहिरर्थेन प्रतिबन्धस्य तादात्म्य
तदुत्पत्तिलक्षणस्य असिद्धेः कारणात् । कथंभूतायाः श्रुतेः इत्याह–
वक्त्रभिप्रायानुविधायिन्याः । क्व6273 किमित्याह–सर्वत्र तदर्थानाश्वासः बहिरर्थाना
श्वास इति एवं चेत् अत्राह–उक्तम् इत्यादि । अत्र पूर्वपक्षे उक्तमुत्तरम्6274 । कि तदि
त्याह–तादात्म्यतदुत्पत्तिभ्यां विनापि परोक्षार्थप्रतिपत्तेः कारणात् अविसंवादः
श्रुतेः इति एतत् । अपि च इत्यादिना परपक्षेपि तद्दूपणं योजयति । अपि च किञ्च
अयं दृश्यमानो भावः वृक्षः शिंशपात्वात्, अत्र पर्वते अग्निः धूमात् इति वा
यदनुमानं तत्र कथं नैव आश्वासः ? कुत एतदित्याह–क्वचिद् इत्यादि । क्वचिद्
देशविशेषे लताचूतादेः, आदिशब्देन लताबदर्यादिपरिग्रहः तस्या उपलब्धेः कार
604 णात् । तथा च शिंशपायाः स्वयम् आत्मना 6275वृक्षत्वेऽप्यविरोधात् कथमाश्वासः ?
काष्ठजन्मनः पावकस्य मण्यादिसा6276मग्रीप्रभवस्य तथाऽशनिजन्मनः तस्मादशनि
भावात् काष्ठाद्यर्थः तदन्तरं तज्जन्मनश्च साकल्येन अनवयवेन अग्निस्वभावाविरोधे पुनः
अङ्गीक्रियमाणे अग्निजन्मैव धूमो नार्थान्तरजन्मा इति कुतोऽयं नियमः यतो
नियमात् कार्यहेतोरव्यभिचारात् धूमादग्निरत्र इत्यादौ आश्वासः स्यात् । अथ
सु6277विवेचित कार्य कारणन्न व्यभिचरति इत्युच्यते । अत्राह–कस्यचिद्
इत्यादि । कस्यचित् स्वभावकार्यविशेषस्य या अन्यथा साध्याभावप्रकारेण अनु
पपत्तिः
तया परोक्षार्थप्रतिपत्तौ अङ्गीक्रियमाणायां श्रुतस्य स्वयम् आत्मना अदृष्टता
दात्म्यतदुत्पत्तेः
भा6278दौ वोक्तपुस्क पुवत् जैनेन्द्रव्या॰ ५ । १ । ५३6279त्यतो नपुंसकत्वा
भावः । क्वचिद् द्वीपादौ यः तस्य6280 अविसंवादः तस्य अन्यथानुपपत्तेः सिद्धं
प्रामाण्यमिति ॥ छ ॥


  1. –भावे तेन बहि– आ॰, ब॰

  2. –न प्रति– श्र॰

  3. क्वचित्किमि– श्र॰

  4. पृ॰ ४३५ ।

  5. अध्यक्षत्वे– आ॰

  6. आदिपदेन तृण-अरणिनिर्मथनादयो ग्राह्या ।

  7. तुलना–यत्नत परीक्षित कार्य
    कारण नातिवर्तते इति चेत् स्तुतम् प्रस्तुतम्
    अष्टश॰, अष्टमह॰ पृ॰ ७२ । प्रमेयरत्नमा॰ ३ । १०१ ।
    लघी॰ ता॰ पृ॰ ४९ ।
    अथ सुविवेचित कार्यं कारण न व्यभिचरतीति न्यायाद् ।सन्मति॰ टी॰ पृ॰
    २६६ ।

  8. भावौ बोक्त– ब॰, भादौ चोक्त– श्र॰

  9. अदृष्टे तादात्म्यतदुत्पत्ती यस्य तत् अदृष्टतादात्म्यतदुत्पत्ति तस्य अगृहीतस्वभावकार्यादिरूपस्य
    श्रुतज्ञानस्य इत्यर्थ । अत्र अदृष्टतादात्म्यतदुत्पत्तिशब्द श्रुतस्य विशेषणत्वात् नपुसकलिङ्गोऽपि भादौ
    इत्यादि सुत्रानुसारेण भादौ अजादौ सुपि उक्तपुस्कमिगन्त नप् नपुसक वा पुवद् भवति इति पुल्लिङ्गे
    प्रयुक्त, नपुसकलिङ्गे तु नुमागमे सति अदृष्टतादात्म्यतदुत्पत्तिन इति प्रयोगः स्यात् इति भाव ।

  10. श्रुतस्य ।