604
णात् । तथा च शिंशपायाः स्वयम् आत्मना अ6275वृक्षत्वेऽप्यविरोधात् कथमाश्वासः ?
काष्ठजन्मनः पावकस्य मण्यादिसा6276मग्रीप्रभवस्य तथाऽशनिजन्मनः तस्मादशनि
भावात् काष्ठाद्यर्थः तदन्तरं तज्जन्मनश्च साकल्येन अनवयवेन अग्निस्वभावाविरोधे पुनः
अङ्गीक्रियमाणे अग्निजन्मैव धूमो नार्थान्तरजन्मा इति कुतोऽयं नियमः यतो
नियमात् कार्यहेतोरव्यभिचारात् धूमादग्निरत्र इत्यादौ आश्वासः स्यात् । अथ
सु6277विवेचित कार्य कारणन्न व्यभिचरति इत्युच्यते । अत्राह–कस्यचिद्
इत्यादि । कस्यचित् स्वभावकार्यविशेषस्य या अन्यथा साध्याभावप्रकारेण अनु
पपत्तिः तया परोक्षार्थप्रतिपत्तौ अङ्गीक्रियमाणायां श्रुतस्य स्वयम् आत्मना अदृष्टता
दात्म्यतदुत्पत्तेः भा6278दौ वोक्तपुस्क पुवत् जैनेन्द्रव्या॰ ५ । १ । ५३ इ6279त्यतो नपुंसकत्वा
भावः । क्वचिद् द्वीपादौ यः तस्य6280 अविसंवादः तस्य अन्यथानुपपत्तेः सिद्धं
प्रामाण्यमिति ॥ छ ॥
-
अध्यक्षत्वे– आ॰ ।
↩ -
आदिपदेन तृण-अरणिनिर्मथनादयो ग्राह्या ।
↩ -
तुलना–यत्नत परीक्षित कार्य
↩
कारण नातिवर्तते इति चेत् स्तुतम् प्रस्तुतम् –अष्टश॰, अष्टमह॰ पृ॰ ७२ । प्रमेयरत्नमा॰ ३ । १०१ ।
लघी॰ ता॰ पृ॰ ४९ । अथ सुविवेचित कार्यं कारण न व्यभिचरतीति न्यायाद् । –सन्मति॰ टी॰ पृ॰
२६६ । - ↩
-
अदृष्टे तादात्म्यतदुत्पत्ती यस्य तत् अदृष्टतादात्म्यतदुत्पत्ति तस्य अगृहीतस्वभावकार्यादिरूपस्य
↩
श्रुतज्ञानस्य इत्यर्थ । अत्र अदृष्टतादात्म्यतदुत्पत्तिशब्द श्रुतस्य विशेषणत्वात् नपुसकलिङ्गोऽपि भादौ
इत्यादि सुत्रानुसारेण भादौ अजादौ सुपि उक्तपुस्कमिगन्त नप् नपुसक वा पुवद् भवति इति पुल्लिङ्गे
प्रयुक्त, नपुसकलिङ्गे तु नुमागमे सति अदृष्टतादात्म्यतदुत्पत्तिन इति प्रयोगः स्यात् इति भाव । -
श्रुतस्य ।
↩ -
अस्मिन् ग्रन्थे ।
↩ -
पभाचन्द्रेण ग्रन्थकृता ।
↩ -
न्यायकुमुदचन्द्र तत्कर्त्ता
↩
प्रभाचन्द्रश्च अनेन विशेषणेन सूचित । -
जिन पतिर्यस्य ।
↩ -
चतुर्थपरि– आ॰ ।
↩ -
–यप्रमा
↩
– श्र॰ । -
–श प्रथमः परिच्छेदः ब॰ ।
↩