३. शब्दचिन्ता
उक्तं तावद् भावादिशब्दानां व्यवच्छेदविषयत्वं । येप्यभावादिशब्दा
अभावस्य स्वरूपाभावात् तेपि रूपाभिधायिनो वस्तुवाचका नाशङक्या एव ।
सम्भवद् वस्तु वाच्यं
स्यान्न वेति चिन्त्येतापि ।1727 यत्र तु वस्त्वेव नास्ति तत्र का
चिन्ता । अतस्तेऽभावादिशब्दा व्यवच्छेदस्य भावव्यावृत्तेर्व्वाचकाः सिद्धाः ।
तस्मात् स्थितमेतत् स्वभावहेतोर्व्वस्तुतः साध्यात्मकत्वेपि न प्रतिज्ञार्थैकदेशो
हेतुः । साध्यसाधनधर्मिध्वनिविकल्पानां भिन्न1728व्यवच्छेदविषय1729त्वात् । न च
साध्यादीनां कल्पितत्वं भेदस्य कल्पनात् । शब्दत्वेन निश्चितो ध
र्मी सत्त्वेन च
हेतुः (।) क्षणिकत्वेन निश्चितः साध्यः । इत्यकल्पिता एव धर्म्यादय इत्युक्तं ।
स चायं स्वभावो हेतुः ॥
क्वचिदुपाधिभेदो विशेषणविशेषो भिन्नो1730ऽभिन्नो1731 वा तदपेक्षः । केवलो विशेषणरहितः शुद्धोथवा साध्यसिध्यर्थमुच्यते1732 नाशे कार्यत्वसत्त्ववत् । नाशे
साध्ये कार्यत्वं भिन्नविशेषणापेक्षः स्वभावः तज्जन्मन्यपेक्षितप
रव्यापारस्य
कार्यत्वात् । एवं प्रत्ययभेदभेदित्वादयो द्रष्टव्याः । उत्पत्तिमत्वं पुनरभिन्न
विशेषणमुत्पत्त्या स्वभावभूतया कल्पितभेदया विशेषणात् । सत्त्वन्तु केवलं नाश
एव साध्ये स्वभावो विशेषणानुपादानात् ।
ननु स1733त्तास्वभावो हेतुश्चेदभिमतः सामान्यरूपो विशेषस्यानन्वयात् । तदा
सा सत्ता प्रधाना1734ख्या सर्व्वव्यक्तिव्यापिनी कथं साध्यतेऽचे
1735तनत्वा
दिहेतोः । अथ भेदानां परस्परमत्यन्तं भेदेनानन्वयान्न साध्यते तदा सोयं भेदाना
मनन्वयो हि हे1736तुसाध्ययोर्व्याहितः ।
अर्थानन्वयिनः साध्यता न युक्ता तथा साधनतापि । तत् कथं सत्त्वं साधनं
(।) तस्मात् सत्ता सामान्यं साध्यञ्च 1737 साधनञ्चानन्वयात् स्यात् 1738 ।
अत्राह ।
भावः सत्ता सा उपादानं विशेषणं यस्य स भावोपादानः । स एव केवलस्त
न्मात्रं तस्मिन्
साध्ये सामान्यधर्मिणि सामान्यधर्मवति न कश्चिदर्थः प्रधान-70a
354 सिद्धिलक्षणः सां ख्य स्य 1739
सिद्धः स्यात् (।) सत्वमात्रविशेषणस्य धर्मिणः साध
नात् । अनिषिद्धञ्च तादृशं साध्यं भेदानां सत्वस्येष्टत्वात्1740 ॥
अथैकसुखाद्यात्मकमित्यप्रधानविशेष (ण) विशेषितं सत्त्वं साध्यं । तदोपात्तभेदे
साध्येऽस्मिन्1741 सत्त्वे भवेद्धेतुरनन्वयोऽन्वयरहितः प्रधानस्य क्वचिदन्वयासिद्धेः
(।) सामान्यमेव
पुनः किन्न साध्यते । सामान्ये साध्ये सिद्धसाधनदोषात् ।
सत्तायां साध्यायामिष्टायां तेन वादिना विशेष एवाभिमतः साधितो भवेत् ।
अत्र चानन्वयदोष उक्तः ।
अस्माकन्तु1742(।)
अपरामुष्टोऽनध्यवसितः तस्य वस्तुनो1743
भेदो यस्मिन् तस्मिन् वस्तुमात्रे
तु साधने तन्मात्रव्यापिनः साध्यस्यानित्यत्वस्यान्वयो न विहन्यतेऽतः साधनत्वं
सत्त्वस्य युक्तं ।
ननु धूमादग्नि
साधनेपि समानमेतत् । तथा हि यदि धूमादग्निसत्तामात्रं
साध्यते तदा सिद्धसाध्यता । अथ पर्व्वतेऽस्तीति साध्यते तदाऽन्वयासिद्धिः ।
नैतदस्ति । 1744 न हि पक्षायोगव्यवच्छेदस्तमग्निं विशेषी1745करोति । अनग्निव्यावृत्तस्य
साधनात् । सत्तासाधने तु तद् (सत्त्व) विशेष एव प्रधानाख्यः साध्यः ।
किञ्च (।)
सत्तायां साधनमचेतनत्वादीष्टं सद्भावधर्मोऽभावधर्म उभय
धर्मो वा भवेत् ।
तत्र साधनात् प्रागसिद्धे भावे भावधर्मो नास्तीत्यसिद्धासौ । उभयाश्रयो भावाभा
वधर्मश्च व्यभिचार्यनौकान्तिकः । न ह्युभयधर्म एका1746न्तेनैकसत्तां गमयति ।
अमूर्तत्वमिव वस्तुतां1747 । अभावस्य तु धर्मो विरुद्धोऽसत्त्वसाधनात्1748 । ततस्त्रि
विधदोषदुष्टत्वात् साधनस्य1749
सा सत्ता कथं साध्यते ।
साधनपक्षेतु सत्ता धर्मिणि सिद्धत्वान्नासिद्धा
। अनित्यताव्याप्तिप्राप्तेः1750विरोध
व्यभिचारौ चापास्तौ । तस्माद् ।
व्याप्यस्वभावः साध्यात्मतया सिद्धो (निश्चितो) गमकः । तस्य व्याप्यस्य
व्यापकः स्वभावः सिद्धो गम्यः । व्यापकस्य तत्र भाव एव । व्याप्यस्य च तत्रैव
भाव इत्युभयधर्मरूपाया व्याप्तेः सिद्धत्वात् ।
अतश्चायं
1751व्यापकः स्वनिवृत्तौ तस्य व्याप्यस्य निवर्त्तकः । अनेन साधर्म्य
वैधर्म्यप्रयोगावु
द्दिष्टौ ।
(१) निर्हेतुकविनाशः
उदाहरणमाह ।
अनित्यत्वे साध्ये कार्य1752 हेतुर्यथा यत् कृतकं तदनित्यं तथा घटः कृतकश्च शब्द
इति साधर्म्यप्रयोगः । अकार्यमकार्यस्वभावो वाऽविनाशिनि नाशाभाव इति ।
अनित्यत्वनिवृत्तौ कृतकत्वनिवृत्तिर्यथाकाशे कृतकश्च शब्द इति वैधर्म्यप्रयोगः ।
कथं पुनर्गम्यते सत्त्वमात्रानुबन्धिनी नश्वरतेत्याह (।) अहेतुत्वात्
अ1753हेतुकृतत्वाद्
356
विनाशस्य स्वभावाद् वस्तुसत्तामात्रेणानुबन्धिता1754 ।
कस्मादेवमित्याह ।
सापेक्षाणां भावानां हि यस्मादवश्यंभाविता1755 नेक्ष्यते रागस्येव वाससि ।
ततश्च कश्चिद् घटो न विनश्येदपि । विनाशकानां हेतूनां बाहुल्यादवश्यं इति चेत् ।
बाहुल्येपि तस्य नाशकस्य हेतोः1756 क्वचिद् घटादावसम्भवः स्यात् । तद्व्या
70b घातकानामपि
बाहुल्यात् ।
एतेन नाश1757हेतूनां प्रतिरोधसम्भवेन हेतु1758मन्नाशवादिनां मतेन नाशहेतूनां मुद्गरादीनां सर्व्वेषां नाशे कार्येऽनुमापयितव्ये व्यभिचारित्वमुक्तं बोद्धव्यं । कार्या
व्यवस्थितेः । विनाशहेतोर्विनाशस्योत्पत्तिनियमाभावात् ।
कथं पुनर्व्विनाशस्याहेतुतेत्याह ।
असामर्थ्याच्च तद्धेतोर्व्विनश्वरस्य वा भावस्य विनाशः क्रि
यते नाशहेतुना ।
तत्र विनश्वरस्य स्वयमेव विनाशादलं नाशहेतुना । अविनश्वरस्य नाशं कर्त्तुं न
कश्चित् समर्थः । च शब्दात् क्रिया1759प्रतिषेधः स्यात् । तथा ह्यभावो यदि पर्युदासो
357 भावान्तरं कपालादिकं तदा तस्य मुद्गरादिहेतुतेष्यत एव । तदुत्पादेपि घटस्य
न किञ्चिदिति प्राग्वदुपलब्ध्यादिप्रसङ्गः । तस्मादभावं करोति. भावं न करोतीति
स्यात् । तथा चाकर्त्तुरहेतुतैव । तस्माद् विनाशहेतोर
योगात् एव विनाशः स्वभावतः
स्वहेतोर्भवति अस्मादिति1760 भावो हेतुः । यत्र नाम विनाशो भवतीति मुद्गरात्
कपालोत्पत्तौ लोकाभिमानस्तत्र विनाशकायोगात् स्वहेतोरेव विनश्वरस्वभाव
तयोत्पत्तेर्द्वितीये क्षणे न भवतीति वक्तव्यं । तस्मादहेतु1761त्वव्यवस्थानादन्यत्रापि
यत्र विसदृशानुत्पत्त्या विनाशोत्पत्त्यभिमानो नास्ति तत्रापि स्वभावतः स्वहेतोरेव
विनश्य
तीति विनाश एकक्षणस्थायी भावो जायते ।
तथाविधे च भावमात्रानुरोधिनि विनाशे सत्वं हेतुरव्यभिचारः कार्यस्य कारणे
तदधीनत्वादित्युक्तं । तदेवाह1762 ।
या काचि1763द् भावविषयानुमितिः सा द्विविधैव कार्यभावाभ्यां हेतुभ्यां कारण
व्यापकविषया भवन्ती तयोः कार्यस्वभावयोः एव स्वसाध्ये सम्बन्धस्य नियमात् । अन्यस्य तु साध्येऽनापत्तेरतदात्मत्वाच्च नाव्यभिचारनियम
: ।
(२) अनुपलब्धिचिन्ता
क. अनुपलब्धेः प्रामाण्यम्
अनुपलब्धेरप्युपलब्धिनिवृत्तिमात्रलक्षणायाः प्रामाण्यमाख्यातुमाह ।
सज्ज्ञानशब्दव्यवहाराणांप्रवृत्तेर्बुद्धिपूर्व्वकत्वात् तस्या बुद्धे1764
र्भावानुपलम्भने कारणाभावात् प्रवर्तितव्यं नेति सामर्थ्यात् सिध्यति (।) न हि कारणाभावं
कार्यं युक्तं । अतोऽनुपलब्धेरुपलब्धिनिवृत्तिरुपायाः प्रवृत्तिनिषेधे साध्ये प्रमाण
तोक्ता चा र्ये ण । न पिशाचादिकं घटादिकं सदिति
वक्तव्यमनुपलब्धेरिति
सद्व्यवहारप्रतिषेधमात्रं साध्यते न त्वसत्त्वव्यवहारः ।
यत्र तर्हि प्रत्यक्षानुमानयोः शास्त्रस्य निवृत्तिस्तस्याभाव एव साधयितुं युक्त
इत्याह ।
शास्त्राधिकारे1765ऽसम्बद्धा अनेन शास्त्रविषयत्वमाह (।) बहवोऽर्था अनियत
कारणोपनिपातजन्याः सूक्ष्मा दुर्ल्लक्षभेदा मनोवृत्तयो जन्मिनां । देशफलव्यवहिता
वाऽनुत्पन्ना द्रव्यविशेषा अतीन्द्रियाः । अने
न प्रत्यक्षाविषयतामाह । लिङ्गाच्चा
ननुमेयतामाह । तेषामर्थानां प्रत्यक्षानुमानशास्त्रनिवृत्तिलक्षणाया अनुपलब्धितः
कथमभावः साधयितुं युक्तः । सत्यप्यनुपलम्भे तेषां सत्त्वसम्भवात् ।
अत ईदृश्यनुपलब्धिः ।
सतोऽसन्निश्चयफला नेति अप्रमाणता1766 वाऽस्याः स्यात् । सत्त्वप्रतिषेधे साध्ये
काचित् त्वनुपलब्धिर्ल्लिङ्गजा प्रतीतिरस्मिन्नेव1767 साध्ये प्रमाणमपि
स्याल्लिङ्गाति
71a शयभाविनी लिङ्गविशेषप्रभवा । यथोक्तं प्राग्घेतुभेदव्यपेक्षयेति (।) उपलब्धि
लक्षणप्राप्तानुपलब्धिलिङ्गजेत्यर्थः ।
यत् पुनरुक्तमप्रमाणमनुपलब्धिरिति ।1768 यस्य कस्यचित् स्वभावस्य ज्ञापकस्य1769
लिङ्गस्य चाज्ञानस्यानुपलब्धे1770
रयं न्याय उदाहृतः । न हि स्वभावो नोपलभ्यत1771
इत्येव नास्ति । देशकालस्वभावविप्रकृष्टानामदर्शनेपि सत्त्वाविरोधात् । ततो
359 नास्ति
विरक्त1772चेत इत्याद्य1773युक्तं (।) न च कारणमित्येव कार्याण्यव्यवधानतो
भवन्ति (।) ततो नास्ति दानहिंसाविरतिचेतनानामभ्युदयहेतुता फलानन्तर्या
भावादित्ययुक्तं1774। (२००)
-
यथाऽविषयशब्दाभावाग्राहकत्वादपोहविषयाः सिद्धा इति दृष्टान्तेन परः
↩
साध्यस्तथाभावविषया अप्यपोहविषयाभावस्वरूपाग्राहकत्वात् (।) केवलमध्यवसा
यात्तृ तद्विषयत्वं । -
कारणैर्न कृत इति द्वितीयादिक्षणस्थायीति शब्दे भिन्नभिन्नारोपव्य
↩
वच्छेदकत्वेन । -
वस्तुविषयत्वे स्यात् प्रतिज्ञार्थैकदेशता ।
↩ -
यद्यपि कृतके सत्त्वमस्ति तथापि हेतुकृतोयं कृतक एतन्मात्रम्विवक्षितं
↩
न सामर्थ्यं । -
स्थानकारणादिप्रत्ययभेदित्वपुरूषप्रयत्नजत्वं स्वभावभूतधर्मभेदेनोत्पत्ति
↩
मत्त्वं । -
अनित्ये कृतकमुपाधिभेदापेक्षं सत्त्वमनपेक्षं ।
↩ -
सत्त्वे
↩ -
सांख्यस्यास्ति प्रधानमिति साध्यं ।
↩ -
अथ सत्तायाः सामान्ये साध्ये सिद्धसाध्यताऽतो विशेषः साध्यः तत्रान्वयात्
↩
साध्यशून्यो दृष्टान्तोतो न सत्ता । -
सत्त्वहेतावसाध्यशून्यो दृष्टान्तविशेषाणां दुष्टो हेतौ साध्यं च ।
↩ -
असिद्धत्वात् ।
↩ -
इति सांख्योक्तौ बौद्धो दोषमाह ।
↩ -
त्रैगुण्यादिर्यतो नित्यः
↩ -
सिद्धसाध्यतोक्ता
↩ -
निरन्वयविनाशाभावान्नित्ये त्रिगुणत्वात् सुखदुःखमोहात्मके कर्तृत्वादि
↩
युक्ते धूमाग्न्योस्त्वयोगव्यवच्छेदेन व्याप्तिः प्रदेशनिष्ठताऽसिद्धा साध्येति न दोषः । -
दोषमाह ।
↩ -
सत्तायाः ।
↩ -
यत्र धूमस्तत्राग्निरित्यग्निमात्रेण व्याप्तोग्निनान्तरीयो धूमः सिद्धो यत्रै
↩
व दृश्यते तत्रैवाग्निर्बुद्धिं जनयति तत्र च साध्यनिर्देशेन न किञ्चित् । -
पक्षोग्नेर्न विशेषणं ।
↩ -
यो भावस्य धर्मः स्वभावः स कथं न भावस्य ।
↩ -
प्रसङ्गस्याश्रितत्वादत्र मूर्त्तनिवृत्तिमात्रं भावे विज्ञानेपि निरूपाख्येपीति
↩
विपक्षादव्यावृत्तेरगमकं । -
हेतुसिद्धिं स्वीकृत्यानेकान्तविरुद्धतोक्तिरिहासिद्धावभावात् ।
↩ -
यत् किंञ्चित् साधनमुपादीयते तस्य ।
↩ -
निश्चयात् ।
↩ -
गम्यगमकत्वमुक्त्वा निवर्त्त्यनिवर्त्तकमाह ।
↩ -
कृतकत्वं ।
↩ -
व्याप्तिविषयं प्रमाणं विपक्षे आधकमाह पुष्टः परेण ।
↩ -
भावस्तावदित्यादिना निर्हेतुकत्वे सिद्धे स्वरसते (ा) निवर्त्तमाने घटे
↩
मुद्गरादिसहाये कपालजनके सदृशक्षणानारम्भान्मन्दमतीनां सहेतुत्वावसायो मुद्
गराच्छेदात् संतानस्य न प्रतीतिबाधापि । -
नित्योपि स्यात् कश्चित् ।
↩ -
सर्व्वज्ञसत्वे तु न दोषो यतः यदुपदिश्यते तज्ज्ञानपूर्व्वं यथान्यत् उपदिश्यते
↩
च चतुरार्यसत्त्यं स ज्ञानी सर्व्ववित् -
लिङ्गत्वेनोपात्तानां ।
↩ -
ये यद्भावं प्रत्यनपेक्षास्ते तद्भावनियता यथाऽसम्भवत्प्रतिबन्धान्त्या
↩
सामग्री कार्योत्पादनेऽन्यानपेक्षश्च कृतको विनाशे इति स्वभावहेतुः । -
कारकत्वं ।
↩ -
स्वभावमात्रभावात् ।
↩ -
हेतुनिरपेक्षत्वात् ।
↩ -
अत्र द्वौ वस्तुसाधनाविति प्रागुक्तमुपसंहरति ।
↩ -
विधि ।
↩ -
तस्य प्रवृत्तिविषयस्य भावस्यानुपलम्भने प्रत्यक्षानुमानाभ्यां प्रेक्षावता ।
↩ -
शास्त्राधिकारो यत्र प्रकरणे तत्रान्तरीयकाः ।
↩ -
सन्निश्चयफला न सद्व्यवहारनिमित्ताभावात् । नाप्यसन्निश्चयफला सन्देहात् ।
↩
इति हेतोः स्याद्वाऽस्या अप्रमाणता । निश्चयफलं हि प्रमाणं । -
शास्त्रं हि पुरुषार्थमधिवृत्तं तत्र च न सर्व्वमधिकृतं पुरुषचेतोवृत्तीनां
↩
प्रत्येकमानन्त्येनाशक्यवचनत्वादनियतान्निमित्ताद् भवनशीलत्वाच्च बहुत्वं ।
देशादिविप्रकृष्टाः पुरुषानुपयोगिनो न निर्देश्याः । लिङ्गस्यानुपलब्धेरतिशये
उपलब्धिलक्षणप्राप्तत्वं तद्भावो यत्रास्ति । -
भस्मविशेषेण किन्तु पिशाचादेः ।
↩ -
स्वभावज्ञापकयोरज्ञानं तस्य ।
↩ -
अदृश्यविषयायाः ।
↩ -
स्वभावाज्ञानेन प्रत्यक्षनिवृत्तिरुक्ता ।
↩ -
अनुमानिवृत्तिरुक्ता लिङ्गाज्ञानेन ।
↩ -
हिंसाविरतिचेतनादेर्नाभ्युदयहेतुतादि ।
↩ -
मूषिकादिविषविकारवद् व्यवहितं फलं स्यात् ।
↩