४. आगमचिन्ता
363 ननु यदुक्तं (।) प्रमाणत्रय1807निवृत्तावपि नार्थाभावनिश्चय इति तन्मा भूत् प्रत्यक्षानुमानयोरसर्व्वविषय
त्वात् तन्निवृत्त्या (ऽ) भावनिश्चयः । आगमस्तु सर्व्व
विषय इति तन्निवृत्तौ युक्तोऽर्थासत्त्वनिश्चय इत्याह1808 ।
नान्तरीयकताया अविनाभावस्याभावाद् वस्तुभिः सह शब्दानां । ततः शब्देभ्यो
नार्थस्य सिद्धिर्निश्चयः । किन्तर्हि तेभ्यो गम्यत इत्याह1809 । वक्तुरभिप्रायस्य विवक्षायास्ते शब्दाः सूचकास्तदन्वयव्यतिरेकानुविधायित्वात् । न च विवक्षा
यथार्थं भवति1810
येन परंपरया तत्सम्वादः स्यात् । विसम्वादाभिप्रायादज्ञानाद्
वाऽन्यथापि विवक्षासम्भवात् ।
यद्येवं सर्व्वमेव वचनं प्रवृत्तिकामानां परीक्षार्हं स्यात् । कश्च सम्वादार्थः
कथञ्चाप्तवादसामान्यादनुमानतास्या चा र्ये णोक्तेत्याह ।1811
सम्बद्धवाक्यानां परस्पराभिसम्बद्धानामेकार्थोपसंहारात् (।) न च दशदाडि
मादिवाक्यमिवैकार्थानभिधायि । अनुगुणोणायं श
क्यानुष्ठानोपेयसाधनं न तु
364 विषशमनतक्षकफणारत्नालङ्कारोपदेशकमिव पुरुषार्थस्य स्वर्गापवर्गस्याभिधायकं न तु काकदन्तपरीक्षोपदेशकमिव परीक्षायां प्रवृत्त्यर्हविषयमधिकृतं वाक्यं ।
अतोऽपरमनधिकृतमनवधानार्हत्वात् ।
अस्य च परीक्षार्हस्य वाक्यस्याविसम्वादः तदर्थयो1812 रागमाभिधेययोर्दृष्टा
दृष्टयोःप्रत्यक्षा
प्रत्यक्ष1813 योरर्थयोः प्रत्यक्षेणानुमानेन च द्विविधेनेति वस्तुबलभाविना
ऽगमाश्रयेण चाबाधनमन्येषाञ्च बाधनं नाम । यथा प्रत्यक्षत्वेन सम्मतानां पञ्चानां
स्कन्धानां प्रत्यक्षेणाबाधनं सिद्धिरेव अप्रत्यक्षत्वेनेष्टानां शब्दादि1814त्रिगुणमयत्व
द्रव्यकर्मसामान्यसंयोगादीनाञ्च तेन बाधनं1815 । अनुमेयत्वेनेष्टानां चतुरार्यसत्यानां
वस्तुबलप्रवृत्ते1816नानुमा
नेनाबाधनं सिद्धिरेव । अननुमेयत्वेनेष्टानाञ्चात्मेश्वरा
दीनामनुमानेन1817 बाध एव । अत्यन्तपरोक्षाणां रागादिहेतुकाऽधर्मप्रहाणादीनामा
गमाश्रयानुमानेनाबाधनं सिद्धिरेवं1818 रागादिहेतुत्वेनेष्टस्य हेतुत्वानुपरोधिनः
स्नोनोवासाग्निहोत्रादेः प्रहाणोपायतयाऽनुपदेशात् हेतुव्याघातस्योपायत्वेनोपदेशा
च्चैवं
विधमबाधनमविसम्वाद इष्टः ।
तस्यैवं भूतस्याप्तवादस्यादृष्टव्यभिचारस्याविसम्वादसामान्यात्1819 प्रत्यक्षानु
मानागम्येप्यर्थे उत्पन्नाया बुद्धेरविसम्वादादनुमानता चा चार्य दि ग्ना गे नाभिहिता
365
गत्या । अत्यन्तपरोक्षेष्वर्थेषु दानहिंसाचेतनादिष्वर्थानर्थश्रवणादागमप्रामाण्य
मनाश्रित्य स्थातुमसामर्थ्यादेतद्भावे विरोधाभावाच्च सत्यां प्रवृत्तौ1820 वर
मेवं
प्रवृत्तिरित्यगत्या1821ऽनुमानतोक्ता । न तु वस्तुतो वचनानामर्थेषु नान्तरीयकत्वा
भावात् । (२१६)
-
आगमेन सह ।
↩ -
सिद्धान्ती ।
↩ -
...शास्त्राधिकार (३।१९८) इत्यत्र नागमे सर्व्वार्थनिबन्धनमुक्तं यत् तद्
↩
बाह्यार्थे यद्यपि घटविवक्षातः पटशब्दस्योत्पत्तिस्तथापि स्थानकरणाभिधातादेरेव
साक्षात्कारणादुत्पत्तेर्व्यभिचाराभावान्नाहेतुकत्वं । -
आगमप्रामाण्यमभ्युपगम्यात्र तु नैव बाह्यार्थेऽस्य प्रामाण्यमित्युक्तम् ।
↩ -
यो य आप्तवादः सोऽविसंवादी यथा क्षणिकाः सर्व्वसंस्कार इत्यादिकः ।
↩
आप्तवादश्चायमत्यन्तपरोक्षेप्यर्थे इत्यविसम्वादसामान्यादागमस्य बाह्येर्थे (दिग्)
नागेनानुमानमुक्तमित्यभ्युपेतबाधामाह । उच्यते न पुरुषोऽनाश्रित्यागमप्रामाण्य
मसितुं समर्थः । प्रत्यक्षफलाया हिंसादिविरतेः स्वर्गादिश्रुतेरविरतेर्नकादिश्रुतेः ।
तद्भावे विरोधाभावच्च । तत् सति प्रवर्त्तितव्ये वरमेवं प्रवृत्त इति परीक्षया
प्रामाण्यमाह (।) तच्च शास्त्रं न सर्व्वमधिकृतं किन्तु । -
गुणत्रययुक्तञ्च यद्यविसंवादि तदा प्रवर्तित्तव्यमित्यविसम्वादमाह ।
↩ -
प्रत्यक्षानुमानविषययोः ।
↩ -
सां ख्ये शब्दादिस्वभावानां सुखदुःखमोहानां प्रत्यक्षेणाप्रतीतेः । वैशेषिका
↩
देर्द्रव्यमाकाशादि । अनेकद्रव्यञ्च द्रव्यमवयवी । कर्मोत्क्षेपणादि । सामान्यं सत्ता
गोत्वादि । आदिना विभागादि । -
नीलादिव्यतिरेकेणानुपलब्धेः ।
↩ -
आगमापेक्षेण ।
↩ -
लिङ्गाभावान्नानुमेयता ।
↩ -
रागद्वेषादिस्वभावमधर्मन्तदुत्थं कायकर्मादि चाधर्ममभ्युपेत्य स्नानाद्य
↩
नुक्तेः । -
शक्यपरिच्छेदेऽविसम्वादवत्परोक्षेप्याप्तवादाल्लिङ्गादुत्पन्नायाः सम्वादबुद्धेर
↩
नुमानता । -
न तु प्रमाणगम्य एवार्थे विसंवादकात् ।
↩ -
अतोन्यथापरोक्षे प्रवृत्त्यसंभवात् ।
↩