स्वार्थानुमानं व्याख्याय परार्थानुमानं व्याख्यातुमाह (।)
तत्र परार्थानुमानं2129 स्वदृष्टार्थप्रकाशनमित्याचार्यीयलक्षणं । स्वेन2130 दृष्टः स्वदृष्टः । स्वदृष्टश्चासावर्थश्चेति त्रिरूपो हेतुः । तस्य प्रकाशनम्वचनं अनुमानहेतुत्वादित्यर्थः ।
चतुर्थो व्याख्यायते । तत्र सम्बन्धमन्तरेण वाक्यार्थावृत्तेरिति तृतीयपरिच्छेदं व्याख्यायानेनोत्तरसम्बन्धं कथयन् प्रतिपर्तृसुखार्थमन्त्यपरिच्छेदे सर्वमेव शास्त्रशरीरमनुक्रमेण वृत्तिकृत् कथयति अनुमानमित्यादि ।
[तत्रैव]---परार्थमनुमानं तु ।
वादिप्रतिवादिभ्यामिति प्रकरणात् ।
Generating a file for download may take up to a few minutes. Please wait.
This dialog should close automatically when the download has completed.