(७) अनुपलब्धिचिन्ता
(१) अनुपलब्धेः पृथगग्रहणे कारणम्
ननु यथा स्वभावकार्यसिद्ध्यर्थं द्वौ हेतू उक्तौ तथाऽनुपलब्धिरपि वक्तुं युक्ता
हेतुत्वात् । स्वभावानुपलब्धिस्तावत् तादात्म्यप्रतिबन्धात् स्वभावहेतोर्न भिद्य
त
इति स्वभावहेतुर्निर्देशादेव निर्द्दिष्टा । कारणव्यापकानुपलब्धिभ्याञ्च निषेध्या
नुपलब्धिरेव प्रतिपाद्यत इति न तेपि स्वभावानुपलब्धेर्भिद्यन्ते । उदाहरणन्तर्हि
कस्मान्नोक्तमित्याह ।
त्रिविधाप्यनुपलब्धिर्व्विपक्षाद्धेतोः कारणस्य स्वभावस्य व्यापकस्य निवृत्यै
वार्थस्य कार्यस्य व्याप्यस्य च निवृत्तेर्व्वर्णनात् सिद्धोदाहरणेति न पृथगुक्ता ।
स्वभा
वानुप(ल)ब्धिः कारणव्यापकाभावसाधिका । तयोरनुपलब्धिस्तु कार्य
व्याप्याभावसाधनीति त्रिविधानुपलम्भोदाहरणं सिद्धं । (२६०)