७. प्रत्यक्षाभासचिन्ता
प्रत्यक्षाभासमिदानीं वक्तव्यं ।
त्रिविधं कल्पनाज्ञानमाश्रयोपप्लवोद्भवम् ।
अविकल्पकमेकञ्च प्रत्यज्ञाभं चतुर्विधम् ॥ २८८ ॥
त्रिविधं कल्पनाज्ञानं933 प्रत्यक्षाभं मरीचिकायां जलाध्यवसायि भ्रान्तिज्ञानं
संवृतौ वि934 संवादिव्यवसायसां
वृतज्ञानं । पूर्व्वदृष्टैकत्वकल्पनाप्रवृत्तं लिङ्गानुमे
यादिज्ञानं । अविकल्पकञ्च एकं प्रत्यक्षाभं । कीदृशमाश्रयस्येन्द्रियस्योपप्लवस्तिमिरा
द्युपघातस्तस्माद् भवो यस्य तत्तथा । एवञ्च चतुर्विधञ्च प्रत्यक्षाभासं ॥ (२८८)