Adhikāra 54

213-b
तत्राजगल्लिकामामां जलौकाभिरुपाचरेत् ।
शुक्तिसौराष्ट्रिकाक्षारकल्कैश्चालेपयेन्मुहुः ॥ १ ॥
कठिनां क्षारयोगैश्च द्रावयेदजगल्लिकाम् ।
श्लेष्मविद्रधिकल्केन जयेदनुशयीं भिषक् ॥ २ ॥
विवृतामिन्द्रवृद्धां च गर्दभीं जालगर्दभम् ।
इरिवेल्लिकां गन्धनामां जयेत्पित्तविसर्पवत् ॥ ३ ॥
मधुरौषधसिद्धेन सर्पिषा शमयेद्व्रणान् ।
रक्तावसेकैर्बहुभिः स्वेदनैरपतर्पणैः ॥ ४ ॥
जयेद्विदारिकां लेपैः शिग्रुदेवद्रुमोद्भवैः ।
पनसिकां कच्छपिकामनेन विधिना भिषक् ॥ ५ ॥
साधयेत्कठिनानन्याञ्शोथान्दोषसमुद्भवान् ।
अन्त्रालजीं कच्छपिकां तथा पाषाणगर्दभम् ॥ ६ ॥
सुरदारुशिलाकुष्ठैः स्वेदयित्वा प्रलेपयेत् ।
कफमारुतशोथघ्नो लेपः पाषाणगर्दभे ॥ ७ ॥
214-a
शस्त्रेणोद्धृत्य वल्मीकं क्षाराग्निभ्यां प्रसाधयेत् ।
मनःशिलालभल्लातसूक्ष्मैलागुरुचन्दनैः ॥ ८ ॥
जातीपल्लवकल्कैश्च निम्बतैलं विपाचयेत् ।
वल्मीकं नाशयेत्तद्धि बहुच्छिद्रं बहुस्वनम् ॥ ९ ॥
पाददारीषु च शिरां व्यधयेत्तलशोधनीम् ।
स्नेहस्वेदोपपन्नौ तु पादौ चालेपयेन्मुहुः ॥ १० ॥
मधूच्छिष्टवसामज्जाघृतक्षारैर्विमिश्रितैः ।
सर्जाख्यसिन्धूद्भवयोश्चूर्णं मधुघृताप्लुतम् ।
निर्मथ्य कटुतैलाक्तं हितं पादप्रमार्जनम् ॥ ११ ॥
उपोदिकासर्षपनिम्बमोच-
कर्कारुकैर्वारुकभस्मतोये ।
तैलं विपक्वं लवणांशयुक्तं
तत्पाददारीं विनिहन्ति लेपात् ॥ १२ ॥
अलसेऽम्लैश्चिरं सिक्तौ चरणौ परिलेपयेत् ।
पटोलारिष्टकाशीसत्रिफलाभिर्मुहुर्मुहुः ॥ १३ ॥
करञ्जबीजं रजनी काशीसं मधुकं मधु ।
रोचना हरितालं च लेपोऽयमलसे हितः ॥ १४ ॥
लाक्षाभयारसालेपः कार्यं वा रक्तमोक्षणम् ।
जातीपत्रं च संमर्द्य दद्यादलसके भिषक् ॥ १५ ॥
214-b
बृहतीरससिद्धेन तैलेनाभ्यज्य बुद्धिमान् ।
शिलारोचनकाशीसचूर्णैर्वा प्रतिसारयेत् ॥ १६ ॥
दहेत्कदरमुद्धृत्य तैलेन दहनेन वा ।
चिप्पमुष्णाम्बुना स्विन्नमुत्कृत्याभ्यज्य तं ब्रणम् ॥ १७ ॥
दत्त्वा सर्जरसं चूर्णं बद्ध्वा व्रणवदाचरेत् ।
स्वरसेन हरिद्रायाः पात्रे कृष्णायसेऽभयाम् ॥ १८ ॥
घृष्ट्वा तज्जेन कल्केन लिम्पेच्चिप्पं पुनः पुनः ।
चिप्पे सटङ्कणास्फोतामूललेपो नखप्रदः ॥ १९ ॥
निम्बोदकेन वमनं पद्मिनीकण्टके हितम् ।
निम्बोदककृतं सर्पिः सक्षौद्रं पानमिष्यते ॥ २० ॥
पद्मनालकृतः क्षारः पद्मिनीं हन्ति लेपतः ।
निम्बारग्वधकल्कैर्वा मुहुरुद्वर्तनं हितम् ॥ २१ ॥
निलीपटोलमूलाभ्यां साज्याभ्यां लेपनं हितम् ।
जालगर्दभरोगे तु सद्यो हन्ति चवेदनाम् ॥ २२ ॥
215-a
अहिपूतनके धात्र्याः पूर्वं स्तन्यं विशोधयेत् ।
त्रिफलाखदिरक्वाथैर्ब्रणानां धावनं सदा ॥ २३ ॥
करञ्जत्रिफलातिक्तैः सर्पिः सिद्धं शिशोर्हितम् ।
रसाञ्जनं विशेषेण पानालेपनयोर्हितम् ॥ २४ ॥
गुदभ्रंशे गुदं स्नेहैरभ्यज्याशु प्रवेशयेत् ।
प्रविष्टे स्वेदयेच्चापि बद्धं गोष्फणया भृशम् ॥ २५ ॥
कोमलं पद्मिनीपत्रं यः खादेच्छर्करान्वितम् ।
एतन्निश्चित्य निर्दिष्टं न तस्य गुदनिर्गमः ॥ २६ ॥
वृक्षाम्लानलचाङ्गेरीबिल्वपाठायवाग्रजम् ।
तक्रेण शीलयेत्पायुभ्रंशार्तोऽनलदीपनम् ॥ २७ ॥
गुदं च गव्यपसया म्रक्षयेदविशङ्कितः ।
दुष्प्रवेशो गुदभ्रंशो विशत्याशु न संशयः ॥ २८ ॥
मूषिकाणां वसाभिर्वा गुदे सम्यक्प्रलेपनम् ।
स्विन्नमूषिकमांसेन चाथवा स्वेदयेद्गुदम् ॥ २९ ॥
चाङ्गेरीकोलदध्यम्लनागरक्षारसंयुतम् ।
घृतमुत्क्वथितं पेयं गुदभ्रंशरुजापहम् ।
शुण्ठीक्षारावत्र कल्कौ शिष्टं तु द्रवमिष्यते ॥ ३० ॥
215-b
क्षीरे महत्पञ्चमूलं मूषिकामन्तवर्जिताम् ।
पक्त्वा तस्मिन्पचेत्तैलं वातघ्नौषधसाधितम् ॥ ३१ ॥
गुदभ्रंशमिदं तैलं पानाभ्यङ्गात्प्रसाधयेत् ॥ ३२ ॥
स्वेदोपनाहं परिकर्तिकायां
कृत्वा समभ्यज्य घृतेन पश्चात् ।
प्रवेशयेच्चर्म शनैः प्रशिष्टै-
र्मांसैः सुखोष्णैरुपनाहयेच्च ॥ ३३ ॥
स्नेहस्वेदैस्तथैवैनां चिकित्सेदवपाटिकाम् ।
निरुद्धप्रकशे नाडीं द्विमुखीं कनकादिजाम् ॥ ३४ ॥
क्षिप्त्वा त्यक्त्वा चुल्लकादिस्नेहेन परिषेचयेत् ।
तैलेन वा वचादारुगन्धैः सिद्धेन च व्यहात् ॥ ३५ ॥
पुनः स्थूलतरा नाडी देया स्रोतोविवृद्धये ।
शस्त्रेण सेवनीं त्यक्त्वा भित्वा व्रणवदाचरेत् ॥ ३६ ॥
स्निग्धं च भोजनं बद्धे गुदेऽप्येष क्रियाक्रमः ।
चर्मकीलं जतुमणिं मसकांस्तिलकालकान् ॥ ३७ ॥
उद्धृत्य शस्त्रेण दहेत्क्षाराग्निभ्यामशेषतः ।
रुबुनालस्य चूर्णेन धर्षी मसकनाशनः ॥ ३८ ॥
216-a
निर्मोकभस्मघर्षाद्वा मसः शान्तिं व्रजेत्सदा ।
युवानपिडकान्यच्छनीलिकाव्यङ्गशर्कराः ॥ ३९ ॥
शिराव्यधैः प्रलेपैश्च जयेदभ्यञ्जनैस्तथा ।
लोध्रधान्यवचालेपस्तारुण्यपिडकापहः ॥ ४० ॥
तद्वद्गोरोचनायुक्तं मरिचं सुखलेपतः ।
सिद्धार्थकवचालोध्रसैन्धवैश्च प्रलेपनम् ॥ ४१ ॥
वमनं च निहन्त्याशु पिडकां यौवनोद्भवाम् ।
व्यङ्गेषु चार्जुनत्वग्वा मञ्जिष्ठा वा समाक्षिका ॥ ४२ ॥
लेपः सनवनीता वा श्वेताश्वखुरजा मसी ।
रक्तचन्दनमञ्जिष्ठालोध्रकुष्ठप्रियङ्गवः ॥ ४३ ॥
वटाङ्कुरमसूराश्च व्यङ्गघ्ना मुखकान्तिदाः ।
व्यङ्गानां लेपनं शस्तं रुधिरेण शशस्य च ॥ ४४ ॥
मसूरैः सर्पिषा पिष्टैर्लिप्तमास्यं पयोऽन्वितैः ।
सप्ताहाच्च भवेत्सत्यं पुण्डरीकदलप्रभम् ॥ ४५ ॥
मातुलुङ्गजटासर्पिःशिलागोशकृतो रसः ।
मुखकान्तिकरो लेपः पिडकातिलकालजित् ॥ ४६ ॥
नवनीतगुडक्षौद्रकोलमज्जप्रलेपनम् ।
व्यङ्गजिद्वरुणत्वग्वा छागक्षीरप्रपेषिता ॥ ४७ ॥
जातीफलकल्कलेपो नीलिव्यङ्गादिनाशनः ।
सायं च कटुतैलेनाभ्यङ्गो वक्त्रप्रसादनः ॥ ४८ ॥
216-b
कालीयकोत्पलामय-
दधिसरबदरास्थिमध्यफलिनीभिः ।
लिप्तं भवति च वदनं
शशिप्रभं सप्तरात्रेण ॥ ४९ ॥
तुषरहितमसृणयव-
चूर्णसयष्टीमधुकलोध्रलेपेन ।
भवति मुखं परिनिर्जित-
चामीकरचारुसौभाग्यम् ॥ ५० ॥
रक्षोघ्नशर्वरीद्वयं
मञ्जिष्ठागैरिकाह्वयैस्तु पयः ।
सिद्धेन लिप्तमानन-
मुद्यद्विधुबिम्बवद्विभाति ॥ ५१ ॥
परिणतदधिशरपुंखैः
कुवलयदलकुष्ठचन्दनोशीरैः ।
मुखकमलकान्तिकारी
भ्रुकुटीतिलकालकाञ्जयति ॥ ५२ ॥
217-a
१०हरिद्राद्वययष्ट्याह्वकालीयककुचन्दनैः ।
प्रपौण्डरीकमञ्जिष्ठापद्मपद्मककुङ्कुमैः ॥ ५३ ॥
कपित्थतिन्दुकप्लक्षवटपत्रैः पयोऽन्वितैः ।
लेपयेत्कल्कितैरेभिस्तैलं वाभ्यञ्जनं चरेत् ॥ ५४ ॥
पिप्लवं नीलिकाव्यङ्गांस्तिलकान्मुखदूषिकान् ।
नित्यसेवी जयेत्क्षिप्रं मुखं कुर्यान्मनोरमम् ॥ ५५ ॥
११मधुकस्य कषायेण तैलस्य कुडवं पचेत् ।
कल्कैः प्रियङ्गुमञ्जिष्ठाचन्दनोत्पलकेशरैः ॥ ५६ ॥
कनकं नाम तत्तैलं मुखकान्तिकरं परम् ।
अभीरुनीलिकाव्यङ्गशोधनं परमर्चितम् ॥ ५७ ॥
१२मञ्जिष्ठा मधुकं लाक्षा मातुलुङ्गं सयष्टिकम् ।
कर्षप्रमाणैरेतैस्तु तैलस्य कुडवं तथा ॥ ५८ ॥
आजं पयस्तद्द्विगुणं शनैर्मृद्वग्निना पचेत् ।
नीलिकापिडकाव्यङ्गानभ्यङ्गादेव नाशयेत् ॥ ५९ ॥
मुखं प्रसन्नोपचितं वलीपलितवर्जितम् ।
सप्तरात्रप्रयोगेण भवेत्कनकसन्निभम् ॥ ६० ॥
217-b
१३कुङ्कुमं चन्दनं लाक्षा मञ्जिष्ठा मधुयष्टिका ।
कालीयकमुशीरं च पद्मकं नीलमुत्पलम् ॥ ६१ ॥
न्यग्रोधपादाः प्लक्षस्य शुङ्गाः पद्मस्य केशरम् ।
द्विपञ्चमूलसहितैः कषायैः पलिकैः पृथक् ॥ ६२ ॥
जलाढकं विपक्तव्यं पादशेषमथोद्धरेत् ।
मञ्जिष्ठा मधुकं लाक्षा पत्तङ्गं मधुयष्टिका ॥ ६३ ॥
कर्षप्रमाणैरेतैस्तु तैलस्य कुडवं तथा ।
अजाक्षीरं तद्द्विगुणं शनैर्मृद्वग्निना पचेत् ॥ ६४ ॥
सम्यक्पक्वं परं ह्येतन्मुखवर्णप्रसादनम् ।
नीलिकापिडकाव्यङ्गानभ्यङ्गादेव नाशयेत् ॥ ६५ ॥
सप्तरात्रप्रयोगेण भवेत्काञ्चनसन्निभम् ।
कुङ्कुमाद्यमिदं तैलमश्विभ्यां निर्मितं पुरा ॥ ६६ ॥
१४कुङ्कुम किंशुकं लाक्षा मञ्जिष्ठा रक्तचन्दनम् ।
कालीयकं पद्मकं च मातुलुङ्गस्य केशरम् ॥ ६७ ॥
कुसुम्भं मधुयष्टीकं फलिनी मदयन्तिका ।
निशे द्वे रोचना पद्ममुत्पलं च मनःशिला ॥ ६८ ॥
काकोल्यादिसमायुक्तैरेतैरक्षसमैर्भिषक् ।
लाक्षारसपयोभ्यां च तैलप्रस्थं विपाचयेत् ॥ ६९ ॥
कुङ्कुमाद्यमिदं तैलं चाभ्यङ्गात्काञ्चनोपमम् ।
करोति वदनं सद्यः पुष्टिलावण्यकान्तिदम् ।
सौभाग्यलक्ष्मीजननं वशीकरणमुत्तमम् ॥ ७० ॥
218-a
१५मधुकं चन्दनं कङ्गु सर्षपं पद्मकं तथा ।
कालीयकं हरिद्राच लोध्रमेभिश्च कल्कितैः ॥ ७१ ॥
विपचेद्धि घृतं वैद्यस्तत्पक्वं वस्त्रगालितम् ।
पादांशं कुङ्कुमं सिक्थं क्षिप्त्वा मन्दानले पचेत् ॥ ७२ ॥
तत्सिद्धं शिशिरे नीरे प्रक्षिप्याकर्षयेत्ततः ।
तदेतद्वर्णकं नाम घृतं वर्णप्रसादनम् ॥ ७३ ॥
अनेनाभ्यासलिप्तं हि वलीभूतमपि क्रमात् ।
निष्कलङ्केन्दुबिम्बाभं स्याद्विलासवतीमुखम् ॥ ७४ ॥
अरूंषिकायां रुधिरेऽवसिक्ते
शिराव्यधेनाथ जलौकसा वा ।
निम्बाम्बुसिक्तैः शिरसि प्रलेपो
देयोऽश्ववर्चोरससैन्धवाभ्याम् ॥ ७५ ॥
पुराणमथ पिण्याकं पुरीषं कुक्कुटस्य वा ।
मूत्रपिष्टं प्रलेपोऽयं शीघ्रं हन्यादरूंषिकाम् ॥ ७६ ॥
अरूंषिघ्नं भृष्टकुष्टचूर्णं तैलेन संयुतम् ।
218-b
१६हरिद्राद्वयभूनिम्बत्रिफलारिष्टचन्दनैः ।
एतत्तैलमरूंषीणां सिद्धमभ्यञ्जने हितम् ॥ ७७ ॥
दारणे तु शिरां विध्येत्स्निग्धां स्विन्नां ललाटजाम् ।
अवपीडाशिरोबस्तीनभ्यङ्गांश्चावचारयेत् ॥ ७८ ॥
कोद्रवाणां तृणक्षारपानीयं परिधावने ।
कार्यो दारणके मूर्ध्नि प्रलेपो मधुसंयुतः ॥ ७९ ॥
प्रियालबीजमधुककुष्टमिश्रैः ससैन्धवैः ।
काञ्जिकस्था त्रिसप्ताहं माषा दारणकापहा ॥ ८० ॥
सह नीलोत्पलकेशरयष्टी
मधुकतिलैः सदृशमामलकम् ।
चिरजातमपि च शीर्षे
दारणरोगं शमं नयति ॥ ८१ ॥
१७त्रिफलाद्या रजोमांसीमार्कवोत्पलशारिवैः ।
ससैन्धवैः पचेत्तैलमभ्यङ्गादुक्थिकां जयेत् ॥ ८२ ॥
चित्रकं दन्तिमूलं च कोषातकीसमन्वितम् ।
कल्कं पिष्ट्वा पचेत्तैलं केशदद्रुविनाशनम् ॥ ८३ ॥
गुञ्जाफलैः शृतं तैलं भृङ्गराजरसेन तु ।
कण्डूदारणहृत्कुष्ठकपालव्याधिनाशनम् ॥ ८४ ॥
219-a
१८भृङ्गराजत्रिफलोत्पलशारि
लौहपुरीषसमन्वितकारि ।
तैलमिदं पच दारणहारि
कुञ्चितकेशघनस्थिरकारि ॥ ८५ ॥
प्रपौण्डरीकमधुकपिप्पलीचन्दनोत्पलैः ।
कार्षिकैस्तैलकुडवं तैर्द्विरामलकीरसः ॥ ८६ ॥
साध्यः सप्रतिमर्शः स्यात्सर्वशीर्षगदापहः ।
१९मालतीकरवीराग्निनक्तमालविपाचितम् ॥ ८७ ॥
तैलमभ्यञ्जने शस्तमिन्द्रलुप्तापहं परम् ।
इदं हि त्वरितं हन्ति दारणं नियतं नृणाम् ॥ ८८ ॥
धात्र्याम्रमज्जलेपात्स्यात्स्थिरोरुस्निग्धकेशता ।
इन्द्रलुप्ते शिरां विद्ध्वा शिलाकासीसतुत्थकैः ॥ ८९ ॥
लेपयेत्परितः कल्कैस्तैलं चाभ्यञ्जने हितम् ।
कुटन्नटशिखीजातीकरञ्जकरवीरजैः ॥ ९० ॥
अवगाढपदं चैव प्रच्छयित्वा पुनः पुनः ।
गुञ्जाफलैश्चिरं लिम्पेत्केशभूमिं समन्ततः ॥ ९१ ॥
हस्तिदन्तमसीं कृत्वा मुख्यं चैव रसाञ्जनम् ।
लोमान्यनेन जायन्ते नृणां पाणितलेष्वपि ॥ ९२ ॥
भल्लातकबृहतीफलगुञ्जामूलफलेभ्य एकेन ।
मधुसहितेन विलिप्तं सुरपतिलुप्तं शमं याति ॥ ९३ ॥
बृहतीफलरसपिष्टं गुञ्जाफलमूलं चैन्द्रलुप्तस्य ।
कनकनिघृष्टस्य सतो दातव्यं प्रच्छितस्य सदा ॥ ९४ ॥
घृष्टस्य कर्कशैः पत्रैरिन्द्रलुप्तस्य गुण्डनम् ।
चूर्णितैर्मरिचैः कायमिन्द्रलुप्तनिवारणम् ॥ ९५ ॥
219-b
छागक्षीररसाञ्जन-
पुटदग्धगजेन्द्रदन्तमसीलिप्ताः ।
जायन्ते सप्तरात्रात्
खल्व्यामपि कुञ्चिताश्चिकुराः ॥ ९६ ॥
मधुकेन्दीवरमूर्वा
तिलाज्यगोक्षीरभृङ्गलेपेन ।
अचिराद्भवन्ति घनकेशा
दृढमूकायतानृजवः ॥ ९७ ॥
२०स्नुहीपयः पयोऽर्कस्य मार्कवो लाङ्गलीविषम् ।
मूत्रमाजं सगोमूत्रं रक्तिका सेन्द्रवारुणी ॥ ९८ ॥
सिद्धार्थं तीक्ष्णतैलं च गर्भं दत्त्वा विपाचितम् ।
वह्निना मृदुना पक्वं तैलं खालित्यनाशनम् ॥ ९९ ॥
220-a
कूर्मपृष्ठसमानापि रुज्याया रोमतस्करी ।
दिग्धा सानेन जायेत ऋक्षशारीरलोमशा ॥ १०० ॥
२१वटावरोहकेशिन्योश्चूर्णेनादित्यपाचितम् ।
गुडूचीस्वरसे तैलं चाभ्यङ्गात्केशरोपणम् ॥ १०१ ॥
२२चन्दनं मधुकं मूर्वा त्रिफला नीलमुत्पलम् ।
कान्ता वटावरोहश्च गुडूची विसमेव च ॥ १०२ ॥
लौहचूर्णं तथा केशी शाविरे द्वे तथैव च ।
मार्कवस्वरसेनैव तैलं मृद्वग्निना पचेत् ॥ १०३ ॥
शिरस्युत्पतिताः केशा जायन्ते घनकुञ्चिताः ।
दृढमूलाश्च स्निग्धाश्च तथा भ्रमरसन्निभाः ।
नस्येनाकालपलितं निहन्यात्तैलमुत्तमम् ॥ १०४ ॥
२३तैलं सयष्टीमधुकैः क्षीरे धात्रीफलैः शृतम् ।
नस्ये दत्तं जनयति केशाञ्श्मश्रूणि चाप्यथ ॥ १०५ ॥
त्रिफला नीलिनीपत्रं लोहं भृङ्गरजःसमम् ।
अविमूत्रेण संयुक्तं कृष्णीकरणमुत्तमम् ॥ १०६ ॥
त्रिफलाचूर्णसंयुक्तं लोहचूर्णं विनिक्षिपेत् ।
ईषत्पक्वे नारीकेले भृङ्गराजरसान्विते ॥ १०७ ॥
220-b
मासमेकं तु निक्षिप्य सम्यग्गर्भात्समुद्धरेत् ।
ततः शिरो मुण्डयित्वा लेपं दद्याद्भिषग्वरः ॥ १०८ ॥
संवेष्ट्य कदलीपत्रैर्मोचयेत्सप्तमे दिने ।
क्षालयेत्त्रिफलाक्वाथैः क्षीरमांसरसाशिनः ॥ १०९ ॥
कपालरञ्जनं चैतत्कृष्णीकरणमुत्तमम् ।
उत्पलं पयसा सार्धं मासं भूमौ निधापयेत् ॥ ११० ॥
केशानां कृष्णकरणं स्नेहनं च विधीयते ।
भृङ्गपुष्पं जवापुष्पं मेषीदुग्धप्रपेषितम् ॥ १११ ॥
तेनैवालोडितं लौहपात्रस्थं भूम्यधः कृतम् ।
सप्ताहादुद्धृतं पश्चाद्भृङ्गराजरसेन तु ॥ ११२ ॥
आलोड्याभ्यज्य च शिरो वेष्टयित्वा वसेन्निशाम् ।
प्रातस्तु क्षालनं कार्यमेवं स्यान्मूर्धरञ्जनम् ।
एवं सिन्दूरबालाम्बशङ्खभृङ्गरसैः क्रिया ॥ ११३ ॥
२४नवदग्धशङ्खचूर्णं
काञ्जिकसिक्तं हि सीसकं घृष्ट्वा ।
लेपात्कचानर्कदलव-
बद्धान् शुभ्रान्करोति नीलतरान् ॥ ११४ ॥
221-a
लोहमलामलकल्कैः
सजवाकुसुमैर्नरः सदा स्नायी ।
पलितानीह न पश्यति
गङ्गास्नायीव नरकाणि ॥ ११५ ॥
निम्बस्य बीजानि हि भावितानि
भृङ्गस्य तोयेन तथाशनस्य ।
तैलं तु तेषां विनिहन्ति नस्या-
द्दुग्धान्नभोक्तुः पलितं समूलम् ॥ ११६ ॥
निम्बस्य तैलं प्रकृतिस्थमेव
नस्ये निषिक्तं विधिना यथावत् ।
मासेन गोक्षीरभुजो नरस्य
जराग्रभूतं पलितं निहन्ति ॥ ११७ ॥
क्षीरात्समार्कवरसाद्द्विप्रस्थे मधुकात्पले ।
तैलस्य कुडवं पक्वं तन्नस्यं पलितापहम् ॥ ११८ ॥
२५आदित्यवल्लिमूलानि कृष्णशैरीयकस्य च ।
सुरसस्य च पत्राणि फलं कृष्णाशनस्य च ॥ ११९ ॥
मार्कवं काकमाची च मधुकं देवदारु च ।
पृथग्दशपलांशानि पिप्पल्यत्रिफलाञ्जनम् ॥ १२० ॥
प्रपौण्डरीकं मञ्जिष्ठालोध्रं कृष्णागुरूत्पलम् ।
आम्रास्थिकर्दमः कृष्णो मृणाली रक्तचन्दनम् ॥ १२१ ॥
221-b
नीलीभल्लातकास्थीनि कासीसं मदयन्तिका ।
सोमराज्यशनः शस्त्रं कृष्णो पिण्डीतचित्रकौ ॥ १२२ ॥
पुष्पाण्यर्जुनकाश्मर्योश्चाम्रजम्बूफलानि च ।
पृथक्पञ्चपलैर्भागैः सुपिष्टैराढकं पचेत् ॥ १२३ ॥
बैभीतकस्य तैलस्य धात्रीरसचतुर्गुणम् ।
कुर्यादादित्यपाकं वा यावच्छुष्को भवेद्रसः ॥ १२४ ॥
लोहपात्रे ततः पूतं संशुद्धमुपयोजयेत् ।
पाने नस्यक्रियायां च शिरोऽभ्यङ्गे तथैव च ॥ १२५ ॥
एतच्चाक्षुष्यमायुष्यं शिरसः सर्वरोगनुत् ।
महानीलमिति ख्यातं पलितघ्नमनुत्तमम् ॥ १२६ ॥
२६भृङ्गराजरसे पक्वं शिखिपित्तेन कल्कितम् ।
घृतं नस्येन पलितं हन्यात्सप्ताहयोगतः ॥ १२७ ॥
काञ्जिकपिष्टशेलुकमज्ज्ञि सच्छिद्रलौहगे ।
यदर्कतापात्पतति तैलं तन्नस्यम्रक्षणात् ॥ १२८ ॥
केशा नीलालिसङ्काशाः सद्यः स्निग्धा भवन्ति च ।
नयनश्रवणग्रीवादन्तरोगांश्च हन्त्यदः ॥ १२९ ॥
कासीसं रोचनातुल्यं हरितालं रसाञ्जनम् ।
अम्लपिष्टैः प्रलेपोऽयं वृषकच्छ्वहिपूतयोः ॥ १३० ॥
पटोलपत्रत्रिफलारसाञ्जनविपाचितम् ।
पीतं घृतं निहन्त्याशु कृच्छ्रामप्यहिपूतनाम् ॥ १३१ ॥
222-a
रजनीमार्कवमूलं पिष्टं शीतेन वारिणा तुल्यम् ।
हन्ति विसर्पं लेपाद्वराहदशनाह्वयं घोरम् ॥ १३२ ॥
नागकेशरचूर्णं वा शतधौतेन सर्पिषा ।
पिष्ट्वा लेपो विधातव्यो दाहे हर्षे च पादयोः ॥ १३३ ॥