319-a
असम्यगस्रे स्रवति बैल्वव्योषनिशानतैः ।
सागारधूमलवणतैलैर्दिह्याच्छिरामुखम् ।
सम्यक् प्रवृत्ते कोष्णेन तैलेन लवणेन च ॥ १२ ॥
अशुद्धो बलिनोऽप्यस्रं न प्रस्थात्स्रावयेत्परम् ।
अतिस्रुतौ हि मृत्युः स्याद्दारुणा वानिलामयाः ॥ १३ ॥
तत्राभ्यङ्गरसक्षीररक्तपानानि भेषजम् ।
स्रुते रक्ते शनैर्यन्त्रमपनीय हिमाम्बुना ॥ १४ ॥
प्रक्षाल्य तैलप्रोताक्तं बन्धनीयं शिरामुखम् ।
अशुद्धं स्रावयेद्भूयः सायमह्न्यपरेऽपि वा ॥ १५ ॥
रक्ते त्वतिष्ठति क्षिप्रं स्तम्भनीमाचरेत्क्रियाम् ।
लोध्रप्रियङ्गुपत्तुङ्गमाषयष्ट्याह्वगैरिकैः ॥ १६ ॥
मृत्कपालाञ्जनक्षौममसीक्षीरित्वगङ्कुरैः ।
विचूर्णयेद्व्रणमुखं पद्मकादिहिमं पिबेत् ॥ १७ ॥
तामेव वा शिरां विध्येद्व्यधात्तस्मादनन्तरम् ।
शिरामुखं वा त्वरितं दहेत्तप्तशलाकया ॥ १८ ॥
सशेषमप्यसृग्धार्यं न चातिस्रुतिमाचरेत् ।
हरेच्छुङ्गादिना शेषं प्रसादमथवा नयेत् ॥ १९ ॥