57-b
त्रिवृता त्रिफला श्यामा पिप्पली शर्करा मधु ।
मोदकः सन्निपातोर्ध्वं रक्तपित्तज्वरापहः ॥ ६ ॥
शालिपर्ण्यादिना सिद्धा पेया पूर्वमधोगमे ।
वमनं मदनोन्मिश्रो मन्थः सक्षौद्रशर्करः ॥ ७ ॥
शालिषष्टिकनीवारकोरदूषप्रशातिकाः ।
श्यामाकश्च प्रियङ्गुश्च भोजनं रक्तपित्तिनाम् ॥ ८ ॥
मसूरमुद्गचणकाः समुद्गाश्चाढकीफलाः ।
प्रशस्ताः सूपयूषार्थं कल्पिता रक्तपित्तिनाम् ॥ ९ ॥
शाकं पटोलवेत्राग्रतण्डुलीयादिकं हितम् ।
मांसं लावकपोतादिशशैणहरिणादिजम् ॥ १० ॥
विना शुण्ठीं षडङ्गेन सिद्धं तोयं च दापयेत् ।
क्षीणमांसबलं बालं वृद्धं शोषानुबन्धिनम् ॥ ११ ॥
अवम्यमविरेच्यं च स्तम्भनैः समुपाचरेत् ।
वृषपत्राणि निष्पीड्य रसं समधुशर्करम् ॥ १२ ॥
पिबेत्तेन शमं याति रक्तपित्तं सुदारुणम् ।
आटरूषकनिर्यूहे प्रियङ्गुमृत्तिकाञ्जने ॥
विनीय लोध्रं सक्षौद्रं रक्तपित्तहरं पिबेत् ॥ १३ ॥
वासाकषायोत्पलमृत्प्रियङ्गु-
लोध्राञ्जनाम्भोरुहकेशराणि ।
पीत्वा सिताक्षौद्रयुतानि हन्युः
पित्तासृजो वेगमुदीर्णमाशु ॥ १४ ॥
तालीसचूर्णयुक्तः
पेयः क्षौद्रेण वासकस्वरसः ।
कफवातपित्ततमक-
श्वासस्वरभेदरक्तपित्तहरः ॥ १५ ॥
आटरूषकमृद्वीकापथ्याक्वाथः सशर्करः ।
क्षौद्राढ्यः कसनश्वासरक्तपित्तनिबर्हणः ॥ १६ ॥
वासायां विद्यमानायामाशायां जीवितस्य च ।
रक्तपित्ती क्षयी कासी किमर्थमवसीदति ॥ १७ ॥
समाक्षिकः फल्गुफलोद्भवो वा
पीतो रसः शोणितमाशु हन्ति ।
मदयन्त्यङ्घ्रिजः क्वाथस्तद्वत्समधुशर्करः ॥ १८ ॥
अतसीकुसुमसमङ्गा
पाठारोहत्वगम्भसा पीता ।
प्रशमयति रक्तपित्तं
यदि भुङ्क्ते मुद्गयूषेण ॥ १९ ॥