तत्र विभावः—

ज्ञायमानतया तत्र विभावो भावपोषकृत् ।
आलम्बनोद्दीपनत्वप्रभेदेन स च द्विधा ॥ २ ॥

798एवमयमेवमियमित्यतिशयोक्तिरूपकादिकाव्यव्यापाराहितविशिष्टरूपतया ज्ञायमानो विभाव्यमानः सन्नालम्बनत्वेनोद्दीपनत्वेन वा यो नायकादिरभिमतदेशकालादिर्वा स विभावः । यदुक्तम्—विभाव इति विज्ञानार्थः इति799 । तांश्च यथास्वं यथावसरं च रसेषूपपादयिष्यामः । अमीषां चानपेक्षितबाह्यसत्त्वानां शब्दोपधानादेवासादिततद्भावानां सामान्यात्मनां स्वस्वसंबन्धित्वेन विभावितानां साक्षाद् भावकचेतसि विपरिवर्तमानानामालम्बनादिभाव इति न वस्तुशून्यता । तदुक्तं भर्तृहरिणा—

शब्दोपहितरूपांस्तान् बुद्धेर्विषयतां गतान् ।
प्रत्यक्षमिव कंसादीन् साधनत्वेन मन्यते ॥800
169 इति । षट्सहस्रीकृताप्युक्तम्—एभ्यश्च सामान्यगुणयोगेन रसा निष्पद्यन्ते इति801 ।

ज्ञायमानतया नायकादिरालम्बनत्वम्, अभिमतदेशकालादिश्च उद्दीपनत्वं भजताम् । विभावशब्दस्तयोः किमालम्बन इत्यत्र ज्ञानालम्बन एवेत्युक्त्वा तत्संवादमाह यदुक्तमिति । ननु अतिशयोक्त्या रूपकेण च यथा विभावादयो ज्ञाप्यन्ते तेषां तादृशो बहिःसद्भावो नास्ति । न चैतत्802 ज्ञानं निर्वस्तुकं युज्यते । तत्राह अमीषां चेति । अमीषां विभावादीनां यादृशं बहिःसत्त्वं तद् 803आलम्बनादिभावे नापेक्षितमित्यर्थः । कुतस्तर्हि अमीषां तद्भाव इत्यत्राह शब्दोपधानादेवेति । शब्दोपहितं यादृशं रूपं तेनैव तेषां तद्भाव इत्यर्थः । यदि बहिःसत्त्वमेषामनपेक्षितं तर्हि किमात्मान एते येनालम्बनादिभावं भजेरन् । तत्राह सामान्यात्मनामिति । देशकालाद्यनुगतं804 स्वं स्वं रूपं मा भूत् । तदनुगतं तु शब्दोपहितं रूपम् । तेन रूपेण सर्वदेशेषु सर्वकालेषु सर्वावस्थासु च सर्वान् प्रतिपत्तॄन् प्रत्यमी तद्भावं भजन्त इति । यदि शब्दोप- हितमपि रूपं न बहिः प्रकाशेत तत्र सामाजिकानां सर्वेषां चेतसि कथं तद्धेतुको रसास्वादो भवेत् । तत्राह स्वस्वसंबन्धित्वेनेति । एतदुक्तं भवति—सर्वजनस्वसंवेदनसिद्धा खलु रसप्रतिपत्तिः 805नापलपितुं शक्यते । सा च न806 समीचीना, आरोपेण जायमानत्वात् । न संशयः, एककोटिकत्वात् । न सा हि भ्रान्तिः,807 बाधकाभावात् । न सादृश्यकृता, तथानध्यवसायात्808 । अस्ति च । तेन लोकोत्तरमेव तस्या रूपं यथा निर्वहति 809तथैव संविधेयमिति । शब्दोपहितेन रूपेण विभावादीनामुपयोग इत्यत्र विद्वत्संमतिमाह तदुक्तमिति810 । यथा कंसादीनां प्रत्यक्षं रूपं तेषु कार्येषु कारणं भवति तथा काव्यशब्दोपहितमपि रूपं रसप्रतिपत्तिकारणत्वेन श्रोतारो मन्यन्त इत्यर्थः । अत्र भरतसंमतिमप्याह षट्सहस्रीकृतापीति । एभ्यः=विभावादिभ्यः । न व्यावृत्तेन स्वरूपेण किं तु शब्दोपहितेन सकलदेशकालाद्यनुगततया सामान्य- गुणयोगेनेत्यर्थः । उक्तं च—170

अपारे काव्यसंसारे कविरेकः प्रजापतिः ।
यथास्मै रोचते विश्वं तथेदं परिवर्तते ॥
811 इति ।

  1. A.T.A. reads rasabhāvāḥ pratipādyante.

  2. ना॰ शा॰ [GOS. vol. I] पृ॰ ३४६
  3. वाक्यपदीये साधनसमुद्देशे कारिका ५
  4. ना॰ शा॰ [GOS. vol. I] पृ॰ ३४८
  5. Only T.MS. reads na cet jñānaṃ nirvastukaṃ yujyate.

  6. This is the reading in Tri.MS. and in Gr.MS. M.G.T. reads ālambanādibhāve nākṣiptam ity arthaḥ. T.MS. reads tadālambanādibhāvo nāpekṣita ity arthaḥ.

  7. T.MS. reads deśakālādyananugatam, whereas all others give it as deśakālādyanugatam.

  8. nāpalapituṃ śakyate

    is missing in Tri.MS.
  9. In T.MS., and M.G.T. na is missing.

  10. Except T.MS., all others read merely na bhrāntiḥ.

  11. Except T.MS., all others read tathānavasāyāt.

  12. This is the reading in all MSS. except in M.G.T. which gives it as yathā nirvahati tathaiva nirvahatu. tathaiva saṃvidhīyatām iti.

  13. The kārikāśabdopahitarūpāṃś ca, etc. is from the Vākyapadīya, Sādhanasamuddeśa, kārikā 5. See also Nāgeśa’s Laghumañjūṣā, with Kuñcikā and Kalā (C.S.S., 1925), p. 346, for the interpretation. In this context Kumārasvāmin says thus: kaṃsādīnāṃ pratyakṣarūpam iva śabdopahitarūpam apy arthakriyākārīty arthaḥ (op. cit., p. 206). G.C.O. Haas’ remark (Introduction, p. xxxvii) that this kārikā is not from the Vākyapadīya is not correct.

  14. (ध्वन्यालोके ३।४२ [वृत्तौ])