194 अथोन्मादः—

अप्रेक्षाकारितोन्मादः संनिपातग्रहादिभिः ।
अस्मिन्नवस्था888 रुदितगीतहास्यस्मितादयः889 ॥ ३० ॥

यथा—

आः क्षुद्रराक्षस, तिष्ठ तिष्ठ । क्व मे प्रियतमामादाय गच्छसि

इत्युपक्रमे

कथम्—

नवजलधरः संनद्धोऽयं न दृप्तनिशाचरः सुरधनुरिदं दूराकृष्टं न तस्य शरासनम् ।
अयमपि पटुर्धारासारो न बाणपरंपरा कनकनिकषस्निग्धा विद्युत् प्रिया न ममोर्वशी ॥890
इत्यादि ।

  1. ‘स्थान’ इति पाठः.

  2. N.S.P. -hāsāsitādayaḥ.

  3. विक्रमो॰ ४ । ७