अत्रोच्यते—

वाच्या प्रकरणादिभ्यो बुद्धिस्था वा यथा क्रिया ।
वाक्यार्थः कारकैर्युक्ता स्थायी भावस्तथेतरैः ॥ ३७ ॥

यथा लौकिकवाक्येषु श्रूयमाणक्रियेषु गामभ्याज इत्यादिष्वश्रूयमाणक्रियेषु च द्वारं द्वारम् इत्यादिषु स्वशब्दोपादानात् प्रकरणादिवशाद्वा बुद्धि- संनिवेशिनी क्रियैव कारकोपचिता वाक्यार्थस्तथा काव्येष्वपि स्वशब्दोपादानात् क्वचित् प्रीत्यै नवोढा प्रिया इत्येवमादौ1010 क्वचिच्च प्रकरणादिवशात् 1011संनिहिताभिहितविभावाद्यविनाभावाद्वा साक्षाद् भावकचेतसि विपरिवर्तमानो रत्यादिः स्थायी स्वस्वविभावानुभावव्यभिचारिभिस्तत्तच्छब्दोपनीतैः संस्कारपरंपरया परां प्रौढिमानीयमानो 1012वाक्यार्थः । न चापदार्थस्य वाक्यार्थत्वं नास्तीति वाच्यम् । कार्यपर्यवसायित्वात् तात्पर्यशक्तेः । तथा हि—पौरुषेयमपौरुषेयं वा सर्वं वाक्यं कार्यपरम् । अतत्परत्वेऽनुपादेयत्वादुन्मत्तादिवाक्यवत् । काव्यशब्दानां चान्वयव्यतिरेकाभ्यां निरतिशयसुखास्वादव्यतिरेकेण एव, न तु सर्वथा प्रतिपाद्यप्रतिपादकयोः प्रवृत्तिविषयप्रयोजनान्तरानुपलब्धेः । काव्यशब्दानां च स्वानन्दोद्भूतिरेव कार्यत्वेनावधार्यते । तदुद्भूतिनिमित्तत्वं च विभावादिसंसृष्टस्य स्थायिन एवावगम्यते । अतो वाक्यस्याभिधाशक्तिस्तेन तेन रसेनाकृष्यमाणा तत्तत्स्वार्थापेक्षितावान्तरविभावादिप्रतिपादनद्वारा स्वपर्यवसायितामानीयते । तत्र विभावादयः पदार्थस्थानीयास्तत्संसृष्टो रत्यादिर्वाक्यार्थः । तदेतत् काव्यं1013वाक्यपदीयम् । ताविमौ पदार्थवाक्यार्थौ । न चैवं सति212 गीतादिवत् सुखजनकत्वेऽपि वाच्यवाचकभावानुपयोगः । विशिष्टविभावादिसामग्रीविदुषामेव तथाविधरत्यादिभावनावतामेव स्वादोद्भूतेः । तदनेनातिप्रसङ्गोऽपि निरस्तः । ईदृशे च वाक्यार्थनिरूपणे परिकल्पिताभिधादिशक्तिवशेनैव समस्तवाक्यार्थावगतेः शक्त्यन्तरपरिकल्पनं प्रयासः । यथावोचाम1014 काव्यनिर्णये—

1015तात्पर्यान्तरिते वाक्ये व्यञ्जकत्वं न च ध्वनिः ।
किमुक्तं स्यादश्रुतार्थतात्पर्येऽन्योक्तिरूपिणि ॥
विषं भक्षय पूर्वोऽयं समौ तत्परतादिषु ।
प्रसज्यते प्रधानत्वाद् ध्वनित्वं केन वार्यते ॥
ध्वनिश्चेत् स्वार्थविश्रान्तं वाक्यमर्थान्तराश्रयम् ।
तत्परत्वं त्वविश्रान्तौ तत्र विश्रान्त्यसंभवात् ॥
एतावतैव विश्रान्तिस्तात्पर्यस्येति किं कृतम् ।
यावत्कार्यप्रसारित्वात् तात्पर्यं न तुलाधृतम् ॥
भ्रमधार्मिकविश्रब्धमिति भ्रमिकृतास्पदम् ।
निर्व्यापृति कथं वाक्यं निषेधमुपसर्पति ॥
प्रतिपाद्यस्य विश्रान्तिरपेक्षापूरणाद् यदि ।
वक्तुर्विवक्षिताप्राप्तेरविश्रान्तिर्न वा कथम् ॥
पौरुषेयस्य वाक्यस्य विवक्षापरतन्त्रता ।
वक्त्रभिप्रेततात्पर्यमतः काव्यस्य युज्यते ॥
इति ।

अतो न रसादीनां काव्येन सह व्यङ्ग्यव्यञ्जकभावः । किं तर्हि ? भाव्यभावकसंबन्धः । काव्यं हि भावकम् । भाव्यास्तु रसादयः । ते हि स्वतोऽभवन्त एव भावकेषु विशिष्टविभावादिमता काव्येन भाव्यन्ते । न चान्यत्र213 शब्दान्तरेषु भाव्यभावकलक्षणसंबन्धाभावात् काव्यशब्देष्वपि तथा भाव्यमिति वाच्यम् । भावनाक्रियावादिभिस्तथाङ्गीकृतत्वात् । किं च मा वान्यत्र तथास्तु । अन्वयव्यतिरेकाभ्यामिह तथावगमात् । तदुक्तम्—

भावाभिनयसंपन्नान्1016 भावयन्ति रसानिमान् ।
यस्मात् तस्मादमी भावा विज्ञेया नाट्ययोक्तृभिः ॥1017
इति ।

कथं पुनरगृहीतसंबन्धेभ्यः शब्देभ्यः स्थाय्यादिप्रतिपत्तिरिति चेत्, लोके तथाविधचेष्टायुक्तस्त्रीपुंसादिषु रत्याद्यविनाभावदर्शनादिहापि तथोपनिबन्धे सति रत्याद्यविनाभूतचेष्टादिप्रतिपादकशब्दश्रवणादभिधेयाविनाभावेन लाक्षणिकी रत्यादिप्रतिपत्तिः1018 । यथा च काव्यार्थस्य रसभावकत्वं तथाग्रे वक्ष्यामः ।

तमिमं पक्षं निराकारोति अत्रोच्यत इति । वाच्येति । द्विधा हि संनिधिः । निरन्तरपाठेन बुद्धिस्थितिर्वा प्रकरणादिभ्यो वा । अन्यतरन्यायेन बुद्धिस्थिता क्रिया यथा कारकैर्युक्ता वाक्यार्थस्तथेतरैर्विभावादिभिर्युक्तः स्थायी भावो रत्यादिर्वाक्यार्थो भवतीत्यर्थः । तथैव व्याचष्टे यथेत्यादिना । द्वारं द्वारमित्यादिष्विति । तत्र ह्यश्रुतापि क्रिया प्रकरणादिवशाद् विव्रियतां संव्रियतामित्यध्याहृता बुद्धिसंनिवेशिनी वाक्यार्थो भवति । तथा काव्येष्वपि ‘प्रीत्यै नवोढा प्रिया’1019 1020 इत्यादौ स्वशब्दोपादानात्=स्वेन वाचकशब्देनोपादानं यस्य तत् स्वशब्दोपादानं तस्मात्, क्वचित् तद्विरहेऽपि प्रकरणादिवशात् संनिहितविभावाद्युपादानाद्वा भावकचेतसि विपरिवर्तमानः स्थायी भावः स्वस्वविभावादिसंयोगात् परां प्रौढिमानीयमानो वाक्यार्थो भवति । प्रौढिगमनप्रकारकथनं संस्कारपरंपरयेति । विभावैः कश्चित् संस्कार उपनीयते । कश्चिदनुभावैः कश्चित् सात्त्विकैः । कश्चिद् व्यभिचारिभिरिति परंपरा । तदिदमाह तथेत्यादिना । ननु चेतरैः पदार्थैर्विशिष्टः कश्चित् पदार्थ214 एव हि वाक्यार्थो भवति । रसस्तु कस्य पदस्यार्थः, येन वाक्यार्थो भवेत् । तत्राह न चेति । हेतुमाह कार्येति । पौरुषेयमिति । आपाततस्तथा प्रतिभासाभावेऽपि सर्वं पौरुषेयमपौरुषेयं वा वाक्यं कार्यपरमेव । अतत्परत्वे सति उन्मत्तवाक्यवदनुपादेयत्वप्रसङ्गादित्यर्थः । काव्यशब्देष्वन्वयव्यतिरेकाभ्यां किंचित् कार्यं नावगम्यत इति चेत् तत्राह काव्यशब्दानां चेति । प्रतिपाद्यप्रतिपादकयोरिति । यः प्रतिपाद्यः पुरुषो यश्च तत्प्रतिपादकः, उभयोरपि 1021प्रवृत्तिविषयगतस्य प्रयोजनान्तरस्य नावगतेरिति । यदि प्रयोजनान्तरं नावगम्यते तर्हि किं क्रियतामित्यत्राह काव्यशब्दानां चेति1022 । यदि सर्वथान्विष्यमाणं प्रयोजनं न लभ्येत तर्हि नास्तीति निश्चीयते । लभ्यते तु काव्यशब्दानां परमानन्दास्वादः प्रयोजनम् । अतः काव्यानि प्रयोजनरहिततया न निश्चीयन्त इत्यर्थः । ननु विभावादिप्रतिपादकानां वाक्यानां विभावादिरेव वाक्यार्थः । अतः कथं रसस्य वाक्यार्थत्वम् । तत्राह तदुद्भूतिनिमित्तत्वं चेति । विभावादिप्रतिपादकानामपि वाक्यानां रसोद्देशेन प्रयुक्तानां पदार्थस्थानीयविभावादिप्रतिपादनमवान्तरव्यापारीकृत्य रसपरत्वमेव भवतीत्यर्थः । तदेतत् काव्यं वाक्यपदीयमिति1023 । रसप्रतिपादकं काव्यमुद्देश्यतया वाक्यार्थीभूतरसप्रतिपादकतया वाक्यं भवति । रसं प्रति पदार्थीभूतविभावादिप्रतिपादकतया पदमपि भवति । तेन काव्यं वाक्यस्थानीयं पदस्थानीयं चेत्यर्थः । ननु काव्यं चेद् रसोत्पादकं तर्हि काव्यश्राविणां गीतादिश्राविणामिव तिरश्चामपि रसोत्पत्तिप्रसङ्गः । तत्राह न चैवं सतीति । विशिष्टविभावादीति1024 । अत्र यथा सहृदयानामेव रसप्रतिपत्तिर्भवति तादृशं विशेषमभिप्रैति । ननु रसप्रतीतिं प्रति कारणं पदार्थीभूतविभावादिप्रतिपत्तिरति1025 चेत् तर्हि विभावादिसंसृष्टस्थायिभावभावनातः पूर्वमपि रसोत्पत्तिप्रसङ्गः । तत्राह तथाविधरत्यादिभावनावतामेवेति । एवं तदनन्तरमेव रसोत्पत्तिरिति चेत् तर्हि श्रोत्रियाणामपि रसोत्पत्तिप्रसङ्गः । तत्राह तदनेनातिप्रसङ्गोऽपि निरस्त इति । तेषां तथाविधरत्यादिभावनारहितत्वादिति भावः । ईदृशे चेति । उद्देश्यतया रस एव वाक्यार्थ इति यादृशमेतन्निरूपणम्, ईदृशे च निरूपणे सति लौकिकवाक्यपरिकल्पितशक्तिभ्यः215 काव्यवाक्येषु व्यञ्जकत्वापरपर्यायस्य शक्त्यन्तरस्य परिकल्पनं प्रयासमात्रमित्याह ईदृशे चेत्यादिना ।

तात्पर्यान्तरितेति1026 । काव्यवाक्येषु द्वितीयां तात्पर्यकक्ष्यामुल्लङ्घ्य तृतीयकक्ष्यायां व्यञ्जकत्वापरपर्यायं ध्वनिर्नाम शक्त्यन्तरमस्तीति चोदितं1027 निराकरोति न चेति1028 । हेतुमाह किमुक्तं स्यादिति । अश्रुतार्थतात्पर्येऽन्योक्तिरूपिणि= अश्रुते ‘मास्य गृहे भुक्थाः’ इत्यर्थे तात्पर्यं यस्य विषभोजनादिवाक्यस्य, अन्योक्तिरूपिणि1029 तस्मिंस्तात्पर्यपर्यवसायिन्यपि ध्वनित्वप्रसङ्गे किमुक्तं स्यात्= कः परिहार इत्यर्थः । तस्मादविभागेन त्वदभिमतध्वनिरहिते तद्वति वा वाक्ये व्यञ्जकत्वाविशेषे ध्वनिप्रसङ्ग इत्याह विषं भक्षयेति1030 । प्रधानत्वादिति । प्राधान्ये हि ध्वनित्वमप्राधान्ये तदभाव इत्युक्तम् । इह तु प्राधान्यमेवास्ति । अतो ध्वनित्वं 1031प्रसज्यत इत्यर्थः । शङ्कते ध्वनिश्चेदिति । वाक्यं स्वीये संसर्गार्थे विश्रान्तमुपर्यपि प्रसर्पति चेद् ध्वनिर्भवति । अविश्रान्तौ तु तात्पर्यमेव भवति । तत्र विश्रान्त्यसंभवादिति तत्र1032=स्वार्थे विषभोजनादिवाक्यानां विश्रान्त्यसंभवादिति विभाग इति । परिहरति एतावतैवेति1033 । एतावन्मात्रेणैव तात्पर्यं पर्यवस्यतीति कस्य न्यायस्य विषयोऽयमित्यर्थः । यदुद्देशेन1034 वाक्यं प्रयुक्तं तदवधि प्रसरति तद् वाक्यम् । उद्देश्यार्थ एव तात्पर्यार्थः । कथं स मध्ये पर्यवस्यतीत्यर्थः । स्वार्थविश्रान्तौ ध्वनिरिति यदुक्तं स्वार्थे विश्रान्तस्य वाक्यस्य तृतीयकक्ष्यावर्तित्वे ध्वनिरिति तदपि दूषयति भ्रमधार्मिकेति । भ्रमधार्मिकेति वाक्यं संसर्गार्थे विधीयमाने भ्रमे सति विश्रान्तमुपरि यदि न 1035व्याप्रियते तर्हि स व्यङ्ग्यो निषेधः कथं शाब्दः स्यादित्यर्थः । पुनरपि शङ्कते प्रतिपाद्यस्येति । प्रतिपाद्यपुरुषाकाङ्क्षया हि प्रतिपादको वाक्यं प्रयुङ्क्ते । सा तु तस्याकाङ्क्षा ध्वनिवाक्येषु मध्ये विश्रान्तैव भवति । अतस्तात्पर्यपर्वणि पर्यवसितान्येव तानि वाक्यानीत्यर्थः । दूषयति वक्तुरिति । वक्तापि खलु कमप्यर्थमुद्दिश्य वाक्यं प्रयुङ्क्ते । तदुद्देश्यार्थाप्राप्तौ कथमिव तद् वाक्यं विश्रान्तं भवेदित्यर्थः । ननु सर्वत्र वाक्ये वक्ता नास्ति । अपौरुषेयस्यापि वाक्यस्य संभवात् । तत्राह पौरुषेय216 स्येति । काव्यवाक्यं खलु पौरुषेयम् । तेन तत्र सर्वत्र वक्तास्ति । ततस्तदुद्देश्यार्थपर्यवसायित्वं तेषां युज्यत एवेत्यर्थः ।

भाव्यभावकसंबन्ध इति । ननु तात्पर्यादधिकं व्यञ्जकत्वं निषेधयतः संबन्धान्तराङ्गीकरणं व्याहतमिव । उच्यते । कमप्यर्थमुद्दिश्य खलु सर्वोऽपि वक्ता वाक्यं प्रयुङ्क्ते । अतः काव्यवाक्येषु कथं सामाजिकानां रसास्वादो भवेदिति तानि प्रयुञ्जानस्य कवेस्तात्पर्यं, रसप्रतीतिश्च सामाजिकानां शब्दाद् भवति । तेन1036 अस्यां भावनायां सामाजिकः कर्ता । करणं शब्दाः । भाव्यो रसादिः । अतो वक्तुस्तात्पर्यमेव तदीयकाव्यद्वारा सामाजिकानां रसस्य भावकत्वेन निरूप्यते । न तु संबन्धान्तरमङ्गीक्रियत इति । ननु लोके शब्दान्तरेषु भाव्यभावकलक्षणः संबन्धो न दृष्ट इति चेत् । तत्राह न चेति । हेतुमाह भावनाक्रियावादिभिरिति । स्वर्गकामो यजेतेत्यत्र भाव्यं स्वर्गादिफलप् । भावको यजमानः । करणं यागादय इति फलयागयोः 1037भाव्यभावकसंबन्धो भावनैवात्र  । क्रियेति वदद्भिरङ्गीकृत एवेत्यर्थः । यद्वा, अन्यत्र सत्ताकारणमन्वयव्यतिरेकौ । ताविहापि भवतश्चेत् ताभ्यामेवालम् । किमन्यत्र तत्सत्तागवेषणयेत्याह मा वान्यत्रेति । मूलभरतस्यापीदमनुमतमित्याह भावाभिनयसंपन्नानिति ।1038 रङ्गेष्वनुकार्यगतसुखदुःखादिभावाभिनयेन नटगतेन जन्यान् रसान् सामाजिका यद् भावयन्ति तेन तज्जनका भावाः । तस्माद् रसस्य रसजनकानां च संबन्धो भाव्यभावकलक्षण एवेत्यर्थः ।

ननु नायकादिशब्दानां स्वाभिधेयैर्नायकादिभिरेव संबन्धः । रत्यादिभिः सह न संबन्धोऽस्ति । अगृहीतसंबन्धानि च पदानि रत्यादीन् प्रतिपादयिष्यन्ती- त्येतदतिप्रसञ्जकमिति पृच्छति कथं पुनरिति । उत्तरं लोक इति । लोके रत्यादियुक्तानां यथाविधाश्चेष्टा भवन्ति कविरपि तथाविधाश्चेष्टा दृष्ट्वा काव्येष्वपि रत्याद्युद्दिशन् ताश्चेष्टा निबध्नाति । तस्माच्चेष्टादिप्रतिपादकानां शब्दानां तदविनाभूतरत्यादिप्रतियपादने तात्पर्यम् । अतः काव्यपदानां रत्यादौ 1039वृत्तिर्लक्षणा 1040स्वाभिधेयचेष्टाद्यविनाभूतरत्यादिप्रतीतेरिति । भवतु काव्यस्य रसस्य च भाव्यभावकलक्षणः संबन्धः । तेषां तद्भावकत्वप्रकारो वक्तव्य इति चेत् तत्राह यथा चेति ।

  1. नागा॰ ३।४
  2. N.S.P. niyatāvihita-, etc.

  3. N.S.P. ratyādivākyārthaḥ.

  4. N.S.P. kāvyavākyaṃ yadīyaṃ tāv imau. See Note 231a to Laghuṭīkā. According to Bh. Nr.’s comments, the reading available in previous editions is not correct. See Prof. Raghavan’s work on Ś.P. (1963), p. 168.

  5. A.T.A. seems to read here vakṣyāmaḥ instead of avocāma.

  6. See Laghuṭīkā and the notes in the context, and the Introduction.

  7. N.S.P. saṃbandhān.

  8. ना॰ शा॰ [GOS] ६।३४
  9. N.S.P. pratītiḥ.

  10. The following is the complete verse:

    dṛṣṭā dṛṣṭim adho dadhāti, kurute nālāpam ābhāṣitā śayyāyāṃ parivṛtya tiṣṭhati balād āliṅgitā vepate |
    niryāntīṣu sakhīṣu vāsabhavanān nirgantum evehate jātā vāmatayaiva me ’dya sutarāṃ prītyai navoḍhā priyā ||
    (Nāgānanda, III.4)

  11. (नागा॰ ३।४)
  12. M.G.T. alone reads pravṛttiviśeṣagatasya.

  13. In N.S.P. and A.T.A kāvyaśabdānāṃ ca is found (in the Avaloka) only once in connection with the previous pratīka. All MSS. of the Laghuṭīkā give this twice. Perhaps according to Bh.Nṛ. this was a separate sentence running as kāvyśabdānāṃ ca svānandodbhūtir eva kāryatvenāvadhāryate.

  14. Here Dhanika seems to apply ingeniously the expression of the well-known work of Bhartṛhari to the kāvya. The significance is explained well by Bh.Nṛ. the commentator. Previous editions do not show this word in the Avaloka. But A.T.A. gives it very clearly. Perhaps Dhanika had admiration for the Vākyapadīya from which he cited, as an authority, a kārikā under IV.2.

  15. The MSS. in this place are corrupt. Only M.G.T. reads viśṣṭavibhāvād ity atra yathā sahṛdayānām eva rasapratipattir bhavati tādṛśam viśeṣam abhipraiti, and before that evaṃ ca sati (instead of na caivaṃ sati) which is not found either in printed texts or in A.T.A. Subsequently some fragmentary expressions are found in T.MS. and Gr.MS. together with a blank space here and there on the line. The line given here is my own surmise.

  16. T.MS. gives only from here. The preceding portion within square brackets is reconstructed by me on the basis of the fragmentary expressions available.

  17. Of these seven kārikās cited by Dhanika from his Kāvyanirṇaya, which is not available, some of the lines presented previously a number of problems and difficulties in offering correct and exact interpretations, as correct readings could not be seen in print. Many subsequent writers who had occasions to refer to these verses, quoted one or two of these verses which did not present any problems, and never touched difficult and problematic lines according to their habit of skipping over, as one may guess in the case of many other difficult portions of the Avaloka. Here again it is Bhaṭṭanṛsiṃha whose brilliant commentary throws some welcome light. According to this pratīka, the first verse should have this expression in the beginning, and not tātparyānatirekā ca, as given in N.S.P. and other previous editions. Many scholars have reproduced incorrect readings from N.S.P. in this context. See, for instance, Prof. Raghavan’s work on S.P. (1963), page 183, and compare the portion with the one now given. A.T.A. also confirms this pratīka and gives the verse as shown by me in the text now. The following is to be, it appears, the proper construing:

    tātparyāntarite vākye vyañjakatvaṃ na ca dhvaniḥ=tātparyāntargate vākye=bhrama dhārmiketyādau, yat vyañjakatvam abhimataṃ (tava) sa ca dhvanir iti na pṛthak kaścid asti; kiṃ tu tat tātparyāntargatam eva.

  18. All MSS. read here ced iti. Perhaps it should be coditam.

  19. The pratīka again cited here as na ceti is confirmed by A.T.A. So, it should not read as vyañjakatvasya na dhvaniḥ given in previous editions and quoted by all modern writers as such.

  20. This expression anyokti was used by Dhanika before also under I.14. See Bh.Nṛ’s commentary thereon and Note 47. Here it does not seem to be the same anyokti, but it seems to be in the sense of anyasya=tātparyaviṣayāt niṣedhād itarasya vidheḥ, uktiḥ=kathanaṃ, yatra sā anyoktiḥ.

  21. The third line of these verses given in the previous editions is: viṣaṃ bhakṣaya pūrvo yaś caivaṃ parasutādiṣu the meaning of which was not clear, and consequently I suggested some emen- dations to this and other lines in my paper on the Daśarūpaka, published in the Journal of the University of Gouhati, 1960, pp. 125-45. Unfortunately Bh.Nṛ. does not use the full line in the course of his comments. A.T.A., on the other hand, which agrees in many other places with the pratīkas cited by Bh.Nṛ., gives here the following reading: viṣaṃ bhakṣaya pūrvo’yaṃ samānaḥ paśutādiṣu which again is not clear. On the basis of the comments of Bh.Nṛ. and the context of discussion, and on the basis of the resembling syllables in the A.T.A. reading I thought that the line might be uiṣam bhakṣaya pūrvo ’yaṃ samau tatparatādiṣu in the sense to be conveyed by having the sentences thus:

    (1) viṣaṃ bhakṣaya is to be connected with the previous line aśrutārthatātparye ’ nyoktirūpiṇi viṣaṃ bhakṣayeti vākye kim uktaṃ syāt?

    (2) The next sentence will be: pūrvaḥ=tvadabhimatadhvaniḥ, ayam=viṣaṃ bhakṣaya iti prayogaś ceti dvāv api, tatparatādiṣu=tatparatādiviṣaye=aśrutārthaparatādiviṣaye, samau=tulyayogakṣemau.

  22. This use of prasajyate is also confirmed by A.T.A. So it should be the reading, and not prasahyate or anything else.

  23. From these and previous comments of Bh.Nṛ. it appears that the line should read:

    dhvaniś cet svārthaviśrāntaṃ vākyam arthāntarāśrayam |
    tatparatvaṃ tv aviśrāntau tara viśrānty asaṃbhavāt ||
    A.T.A. however gives here an incorrect reading of the second half as tatparatvaṃ ca viśrāntau tanna viśrānty asaṃbhavāt whereas N.S.P. reads tatparatvaṃ tv aviśrāntau, tanna, etc. (This perhaps may be justified.)

  24. etāvataiva is the pratīka and it is clear in all the MSS. and in A.T.A. B.M. also gives this verse with this reading alone. So etāvaty eva does not seem to be original.

  25. The T.MS. very unfortunately stops here.

  26. This explanation shows that the reading nirvyāpṛti found in A.T.A. was what Bh.Nṛ. too had. N.S.P. reads nirvyāuṛtti which is thus definitely wrong. See Prof. Raghavan’s Bhoja’s Śṛṅgāra Prakāśa (1963), p. 183.

  27. M.G.T. shows tenābhāvanāyām; perhaps it was intended as tena asyāṃ bhāvanāyām.

  28. Only M.G.T. reads bhāṭṭaiḥ bhāvyabhāvakalakṣaṇasaṃbandhaḥ, and here again bhāṭṭaiḥ in the transcript is underlined with red ink. Perhaps it was done later while comparing.

  29. Only Gr.MS. reads bhāvābhinayasaṃbandhān. In the G.O.S. ed. of the NS. (vol. I, 2nd ed., page 293) the reading is nānābhinayasaṃbaddhān and it is so according to Abhinava’s interpretation nānābhinayaiḥ samyag baddhān hṛdayaṃ gatān bhāvayantī saṃpādayanti rasāṃs tasmād bhāvāḥ.

  30. All MSS. read vṛttilakṣaṇā.

  31. MSS. seem to read svābhidheyaceṣṭādyavinābhūte ratyādau pratīter iti.