ननु च सामाजिकाश्रयेषु रसेषु को विभावः ? कथं सीतादीनां देवीनां विभावत्वे न विरोधः ? उच्यते—

धीरोदात्ताद्यवस्थानां रामादिः प्रतिपादकः ।
विभावयति रत्यादीन् स्वदन्ते रसिकस्य ते ॥ ४० ॥
ता एव च परित्यक्तविशेषा रसहेतवः ।

न हि कवयो योगिन इव ध्यानचक्षुषा ज्ञात्वा प्रातिस्विकीं रामादीनामवस्थां इतिहासवदुपनिबध्नन्ति । किं तर्हि ? सर्वलोकसाधारण्यात् स्वोत्प्रेक्षाकृतसंनिधयो धीरोदात्ताद्यवस्थाः तन्निबद्धाः क्वचिदाश्रयमात्रदायिन्यो(?) 219 1047भवन्ति । तत्र सीतादिशब्दाः परित्यक्तजनकतनयादिविशेषाः स्त्रीमात्रवाचिनः किमिवानिष्टं कुर्युः ।

चोदयति ननु चेति । यद्यपि रसः सामाजिकाश्रयः, नानुकार्याश्रयः, तथापि विभावादीनां रूपं शब्दोपहितमेव न तु सीतादीनां प्रातिस्विकं रूपमिति किमर्थं निर्बध्यत इत्यर्थः । उत्तरं धीरोदात्ताद्यवस्थानामिति । अस्यार्थः—नायकेषु धीरोदात्ताद्यवस्था एव तद्वाचिनां शब्दानां प्रवृत्तिनिमित्तम् । तन्मात्रमेव रसाश्रयः । रसभाजः सामाजिकास्तु तां तां शब्दोपनीतामवस्थामासाद्य रसान् भावयेयुः । रसाश्रयत्वे तु प्रातिस्विकस्य विशिष्टस्य रूपस्य नोपयोग इति । तथा व्याचष्टे न हीति । योगिन इवेति । योगिनो ह्यतीतमनागतं च रूपं वर्तमानवत् पश्यन्ति । न च तद्वदालम्बनादीनां विशिष्टरूपमपि दृष्ट्वा इतिहासादिवत् तदाश्रयं रसं वर्णयितुं काव्यानि कवयो निबध्नन्तीत्यर्थः ।

  1. N.S.P. dadhati in place of bhavanti.