222 श्चेतसा संभेदात् स्वानन्दाभिव्यक्तिः स्वादः । स्वसंविदात्मैवानन्द इति कृत्वा स्वादस्वाद्ययोरविभागेन व्यपदेशः । स च जन्यमानैर्विकासविस्तरक्षोभविक्षेपात्मकैश्चित्तभूमिविशेषैर्विशिष्टश्चतुर्विधो1058 भवति । शृङ्गारवीरबीभत्सरौद्रेषु सत्सु मनसो विकासाद्याश्चतुर्विधाश्चित्तभूमयो भवन्ति । हास्यादीनामपि स्वसामग्रीलब्धपरिपोषाणां सद्भावे त एव विकासाद्याश्चत्वारो भवन्ति । अत एव शृङ्गारादिजन्यविकासाद्या एव हास्यादिषु सत्सु भवन्तीत्येतावता शृङ्गारादिभिर्हास्यादयो जायन्त इति भ्रमः1059 । ते तु वस्तुगत्या स्वसामग्रीभ्य एव जायन्ते । चतुर्विधविकासादिजनकतया1060 शृङ्गारादीनां हास्यादीनां चाष्टत्वव्यपदेशः । शृङ्गारादयोऽपि हि चतुरो विकासादीन् जनयन्ति । हास्यादयोऽपि चतुरो विकासादीन् । अतस्तेषाम् =शृङ्गारादिजन्यविकासादीनां चतुर्णां, हास्यादिजन्यविकासादीनां चतुर्णां च संकलनया अष्टत्वादष्टौ नाट्ये रसा इत्यवधारणमुपपद्यत इति । तथा व्याचष्टे काव्यार्थेनेत्यादिना । संभेदस्वरूपं कथयति अन्योन्यसंवलने सतीति । संवलनं नाम पृथग्वोधायोग्यत्वोपगमः । तदाह प्रत्यस्तमितेति । तस्य च सामान्यात्मनैकत्वेऽपीति । तस्य=रसात्मनो भेदाभावे1061 सत्यपीत्यर्थः । विकासादीनामेव भेदकारणमुक्तं प्रतिनियतविभावादिकारणजन्येन संभेदभेदेनेति ।1062 हेतुहेतुमद्भाव एवेति । संभेदापेक्षयैव हेतुहेतुमद्भावः, न पुनः शृङ्गारादयो हास्यादीनां कारणमिति शृङ्गारादीनां हास्यादीनां च कार्यकारणभावो दर्शित इत्यर्थः । एवमनभिप्रायत्वे हेतुमाह तेषामिति । कारणान्तरेण स्वस्वविभावादिसहितस्थाय्यात्मना जन्यत्वादित्यर्थः । अन्यत्रानुकृतिशब्ददर्शनात् शृङ्गाराद्यजन्यत्वं हास्यादीनां स्पष्टमित्याह शृङ्गारानुकृतिर्या त्विति । विकासादिसंभेदैकत्वस्य स्फुटीकरणादिति । शृङ्गारादिभिरपि ते विकासादयो जायन्ते हास्यादिभिरपि तादृशा इत्युभयत्रापि संभेदैकत्वस्य स्फुटीकरणादिति । संभेदानां1063 तावत्त्वादिति । अष्टानामष्टविधत्वादित्यर्थः । अष्टत्वं विरुद्वं न्यूनत्वादिति चोदयतिकथमिवासौ प्रादुःष्यादिति । कथम् असौ आनन्दः प्रादुर्भवेदित्यर्थः । परिहरति सत्यमेतदिति । लोके दुःखात्मकत्वमेव करुणस्य दृश्यत इति चेत् तत्राह अन्यश्चेति । अन्वयेन करुणस्योपादेयत्वमुक्त्वा व्यतिरेकेणाप्याह
-
Tri.MS. and A.T.A. (of Avaloka) read bhrami instead of bhūmi. Bh.Nṛ. the commentator on the S.K.Ā. seems to hold a different view regarding cittabhūmis, from that of our Bh.Nṛ. See Prof. Raghavan’s work on Ś.P. footnote on page 437, and the extract from Bh.Nṛ. (on page 423) referred to therein. Also see Note 247a to L.Ṭ.
↩ -
Here bhramaḥ is found in Gr.MS. and in Tri.MS. In M.G.T. however it is not found.
↩ -
Bahurūpamiśra’s interpretation of the following kārikā:
↩śṛṅgāravīrabībhatsaraudreṣu manasaḥ kramāt |hāsyādbhutabhayotkarṣakaruṇānāṃ ta eva hi || -
Kumārasvāmin says: nanu rasāsvāde viśeṣābhāvāt kathaṃ navadhā vibhāga iti cet ? satyam. (As Vidyānātha and Kumārasvāmin accept the śānta, the word navadhā is used in the question.) yathaikasya brahmānandasya candrakāntasopānapaṅktipratibimbitacandrabimbavad upādhibedād anekadhā kalpanam, tadvad atrāpi … vibhāvādibhedād vastuta ekasyāpi nānātvam iti veditavyam. (Balamanorama Press. ed, 1950, p. 209.)
↩ -
Previous printed editions read differently. But the pratīka cited by Bh.Nṛ. is also confirmed by A.T.A.
↩ -
Previous editions give different readings here too. But the pratīka cited by Bh. Nṛ. is correct and is confirmed by A.T.A. also.
↩