इदानीं विभावादिविषयावान्तरकाव्यव्यापारप्रदर्शनपूर्वकः प्रकरणोपसंहारः प्रतिपाद्यते—

पदार्थैरिन्दुनिर्वेदरोमाञ्चादिस्वरूपकैः ।
काव्याद् विभावसंचार्यनुभावप्रख्यतां गतैः ॥ ४६ ॥
भावितः स्वदते स्थायी रसः स परिकीर्तितः ।

अतिशयोक्तिरूपकाव्यव्यापाराहितविशेषैश्चन्द्राद्यैरुद्दीपनविभावैः प्रमदाप्रभृतिभिरालम्बनविभावैर्निर्वेदादिभिर्व्यभिचारिभावै रोमाञ्जाश्रुभ्रूक्षेपकटाक्षाद्यैरनुभावैरघान्तरव्यापारतया पदार्थीभूतैर्वावयार्थः स्थायी भावो भावितो भावरूपतामानीतः स्वदते स रस इति प्राक्प्रकरणतात्पर्यम् ।

प्रकरणोपसंहार इति । यत् प्रकरणं प्रतिपाद्यतयोपक्रान्तं विभावैरनुभावैश्चेत्यादिना तस्य रसे विभावादीनामवान्तरव्यापारभेदप्रतिपादनेनोपसंहारः क्रियत इति । अवान्तरव्यापारतया पदार्थीभूतैरिति । यद्यपि विभावा225 दीनां स्वस्ववाक्यापेक्षया वाक्यार्थत्वमेव तथापि रसं प्रत्यवान्तरव्यापारत्वात् पदार्थीभाव एवेति । अतो वाक्यार्थस्थानीयो रसः पदार्थस्थानीया विभावादय इति । भावित इति भावरूपतामानीत इत्यर्थ इत्याह भावित इति ।