स्त्रीणामीर्ष्याकृतो मानः कोपोऽन्यासङ्गिनि प्रिये ।
श्रुते वानुमिते दृष्टे श्रुतिस्तत्र सखीमुखात् ॥ ५९ ॥
उत्स्वप्नायितभोगाङ्कगोत्रस्खलनकल्पितः ।
त्रिधानुमानिको दृष्टः साक्षादिन्द्रियगोचरः ॥ ६० ॥

234 ईर्ष्यामानः पुनः स्त्रीणामेव नायिकान्तरसङ्गिनि स्वकान्ते उपलब्धे सति । अन्यासङ्गस्तु श्रुतो वानुमितो वा दृष्टो वा स्यात् । तत्र श्रवणं सखीवचनात्, तस्या विश्वास्यत्वात् । यथा ममैव—1107

सुभ्रूस्त्वं नवनीतकल्पहृदया केनापि दुर्मन्त्रिणा मिथ्यैव प्रियकारिणा मधुमुखेनास्मासु चण्डीकृता ।
किं त्वेतद् विमुश क्षणं प्रणयिनामेणाक्षि कस्ते हेतः किं धात्रीतनया वयं किमु सखी किं वा किमस्मत्सुहृत् ॥

प्रणयिनः प्रणयिनीप्रसादनपरं वाक्यं 1108सुभ्रूस्त्वमित्यादि ।

  1. A.T.A. seems to read subhrūs tvam. N.S.P. subhru tvam.

  2. M.G.T. and Tri.MS. read with long ū (subhrūs tvam). It seems also the reading in A.T.A. N.S.P. gives subhru tvam.