अथ बीभत्सः—

बीभत्सः कृमिपूतिगन्धिवमथुप्रायैर्जुगुप्सैकभू- रुद्वेगी रुधिरान्त्रकीकसवसामांसादिभिः क्षोभणः ।
वैराग्याज्जघनस्तनादिषु 1150घृणाशुद्धोऽनुभावैर्वृतो नासावक्त्रविकूणनादिभिरिहावेगार्तिशङ्कादयः ॥ ७४ ॥

अत्यन्ताहृद्यैः कृमिपूतिगन्धिप्रायविभावैरुद्भावितो जुगुप्सास्थायिभावपरिपोषणलक्षण उद्वेगी बीभत्सः । यथा मालतीमाधवे—

उत्कृत्योत्कृत्य कृत्तिं प्रथममथ पृथूच्छोफभूयांसि मांसा- न्यंसस्फिक्पृष्ठपिण्डाद्यवयवसुलभान्युग्रपूतीनि जग्ध्वा ।
आर्तः पर्यस्तनेत्रः प्रकटितदशनः प्रेतरङ्कः करङ्का- दङ्कस्थादस्थिसंस्थं स्थपुटगतमपि क्रव्यमव्यग्रमत्ति ॥1151

रुधिरान्त्रवसाकीकसमांसादिविभावितः क्षोभणो बीभत्सः । यथा वीरचरिते—

अन्त्रप्रोतबृहत्कपालनलकक्रूरक्वणत्कङ्कण- प्रायप्रेङ्खितभूरिभूषणरवैराघोषयन्त्यम्बरम् ।
पीतच्छर्दितरक्तकर्दमघनप्राग्भारघोरोल्लसद्- व्यालोलस्तनभारभैरववपुर्बन्धोद्धतं धावति ॥1152
245 रम्येष्वपि रमणीजघनस्तनादिषु वैराग्याद् घुणाशुद्धो बीभत्सः । यथा—
लालां वक्त्रासवं वेत्त मांसपिण्डौ पयोधरौ ।
मांसास्थिकूटं जघनं जनः कामग्रहातुरः ॥

न चायं 1153शान्त एव विरक्तोक्तेः । अयं तु बीभत्समानो विरज्यते ।

बीभत्सः कृमिपूतिगन्धिवमथुप्रायैरिति । जुगुप्साप्रभवो बीभत्सस्त्रिविधो भवति—उद्वेगी क्षोभणः शुद्धश्चेति । तत्र कृमिप्रभृतिविभावाद्युत्पन्नायां जुगुप्सायामुद्वेगी । रुधिरादिजन्यायां तस्यां क्षोभणः । वैराग्योत्पन्नजघनस्तनादियाथात्म्यपरिभावनाजन्यायां तस्यां शुद्धः । नासिकाया वक्त्रस्य च विकूणनादिभिरनुभावितस्यास्य व्यभिचारिण आवेगप्रभृतय इत्यर्थः । नन्वयं रमणीयेष्वपि प्रमदास्तनजघनादिषु यथात्म्यपरिभावनासमुद्भूतवैराग्याज्जातः शुद्धो वीभत्सः शान्त एवेत्याशङ्क्याह न चेति । हेतुमाह विरक्तोक्तेरिति1154 । सर्वकर्मविरहे1155 शान्तिर्भवति । अयं तु वीभत्सादिजन्मना वैराग्येणोत्पन्नः कथं शान्तो रसो भवेदित्यर्थः ।

  1. ‘घृणायुक्तः’ इति पाठः.

  2. ५ । १६
  3. १ । ३५
  4. See Note 276 to Laghuṭīkā.

  5. This pratīka and the subsequent explanation show that the text here should be: na cāyaṃ śānta eva viraktokteḥ. ayaṃ tu bībhatsamāno virajyate.

    This bībhatsa means that the person in the context has a dislike for even the beautiful items (regarded as such by many) such as jaghana, stana, etc. and it does not mean that he has developed a complete detachment from all the mundane items, which latter is the case for the śāntarasa. This reference must imply that the author is talking about, just for the sake of argument, the fact that the so-called śāntarasa cannot include this third type of bībhatsa, and it does not mean that he is conceding a place to the śāntarasa in a play.

  6. Tri.Ms. reads sarvadharmavirahe, and M.G.T. merely as dharmavirahe. Perhaps it is sarvakarmavirahe. See Dhanika’s comments on IV.35, in connection with śāntarasa: samastavyāpārapravilayarūpasya abhinayāyogāt.