आत्मस्थो यथा रावणः—

जातं मे परुषेण भस्मरजसा तच्चन्दनोद्धूलनं हारो वक्षसि यज्ञसूत्रमुचितं क्लिष्टा जटाः कुन्तलाः ।
247
रुद्राक्षः स किलैष रत्नवलयश्चित्रांशुकं वल्कलं सीतालोचनहारि कल्पितमहो रम्यं वपुः कामिनः ॥

परस्थो यथा—

भिक्षो मांसनिषेवणं प्रकृरुषे किं तेन मद्यं विना किं ते मद्यमपि प्रियं प्रियमहो वाराङ्गनाभिः सह ।
वेश्या द्रव्यरुचिः कुतस्तव धनं द्यूतेन चौर्येण वा चौर्यद्यूतपरिग्रहोऽपि भवतो भ्रष्टस्य1159 कान्या गतिः ॥

  1. N.S.P. dāsasya.