तत्र निर्वेदः—

तत्त्वज्ञानापदीर्ष्यादेर्निर्वेदः स्वावमाननम् ।
तत्र चिन्ताश्रुनिःश्वासवैवर्ण्योच्छ्वासदीनताः ॥ ९ ॥

तत्त्वज्ञानान्निर्वेदो यथा—

प्राप्ताः श्रियः सकलकामदुधास्ततः किं दत्तं पदं शिरसि विद्विषतां ततः किम् ।
संप्रीणिताः प्रणयिनो विभवैस्ततः किं कल्पं स्थितं तनुभृतां तनुभिस्ततः किम् ॥830

आपदो यथा—

राज्ञो विपद्बन्धुवियोगदुःखं देशच्युतिर्दुर्गममार्गखेदः ।
आस्वाद्यतेऽस्याः कटुनिष्फलायाः फलं मयैतच्चिरजीवितायाः ॥

ईर्ष्यातो यथा—

धिग्धिक् शक्रजितं प्रबोधितवता किं कुम्भकर्णेन वा स्वर्गग्रामटिकाविलुण्ठनपरैः पीनैः किमेभिर्भुजैः ।
न्यक्कारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः सोऽप्यत्रैव निहन्ति राक्षसभटान् जीवत्यहो रावणः ॥831

176 वीरशृङ्गारयोर्व्यभिचारी निर्वेदो यथा—

ये बाहवो न युधि वैरकठोरकण्ठपीठोच्छलद्रुधिरराजिविराजितांसाः ।
नापि प्रियापृथुपयोधरपत्रभङ्गसंक्रान्तकुङ्कुमरसाः खलु निष्फलास्ते ॥

आत्मानुरूपं रिपुं रमणीं वालभमानस्य निर्वेदादियमुक्तिः । एवं रसान्तराणामप्यङ्गभाव उदाहार्यः ।

रसानङ्गस्वतन्त्रो निर्वेदो यथा—

कस्त्वं भोः कथयामि दैवहतकं मां विद्धि शाखोटकं वैराग्यादिव वक्षि साधु विदितं कस्मादिदं कथ्यते ।
वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवते न च्छायापि परोपकारकरणी मार्गस्थितस्यापि मे ॥
विभावानुभावरसाङ्गतदनङ्गभेदादनेकशाखो निर्वेदो निदर्शनीयः ।

एवं निर्वेदमात्रमुक्तम् । इदानीं तस्याङ्गत्वमप्याह वीरेति । क्वचित् तस्य स्वातन्त्र्यमप्यस्तीत्याह रसानङ्गेति । एवं विभावभेदाद्, अनुभावभेदाद्, व्यभिचारिभेदाद्, रसाङ्गत्वाद्, अनङ्गत्वाच्च बहुप्रकारो निर्वेदो निदर्शनीय इत्याह विभावानुभावेति ।

  1. वैराग्य॰ श्लो॰ ६७
  2. हनु॰ ना॰ १४।६