अथामर्षः—

अधिक्षेपापमानादेरमर्षोऽभिनिविष्टता ।
850तत्र स्वेदशिरःकम्पतर्जनाताडनादयः ॥ १८ ॥

यथा वीरचरिते—

प्रायश्चित्तं चरिप्यामि पूज्यानां वो व्यतिक्रमात् ।
न त्वेव दूषयिष्यामि शस्त्रग्रहमहाव्रतम् ॥851

यथा वा वेणीसंहारे—

युष्मच्छासनलङ्घनाम्भसि मया मग्नेन नाम स्थितं प्राप्ता नाम विगर्हणा स्थितिमतां मध्येऽनुजानामपि ।
क्रोधोल्लासितशोणितारुणगदस्योच्छिन्दतः कौरवा- नद्यैकं दिवसं ममासि न गुरुर्नाहं विधेयस्तव ॥852

  1. A.T.A. reads: svedo ’tra tāḍanaṃ kampaḥ śironirdhūnanāni ca.

  2. ३।८
  3. १।१२