अथ स्मृतिः—

सदृशज्ञानचिन्ताद्यैः संस्कारात् स्मृतिरत्र च ।
ज्ञातत्वेनार्थभासिन्यां भ्रूसमुन्नमनादयः ॥ २० ॥

यथा—

मैनाकः किमयं रुणद्धि गगने मन्मार्गमव्याहतं शक्तिस्तस्य कुतः स वज्रपतनाद् भीतो महेन्द्रादपि ।
तार्क्ष्यः सोऽपि समं निजेन विभुना जानाति मां रावणं हा ज्ञातं स जटायुरेष जरसा क्लिष्टो वधं वाञ्छति ॥855

यथा वा मालतीमाधवे—

माधवः

मम हि प्राक्तनोपलम्भसंभावितात्मजन्मनः संस्कारस्यानवरतप्रबोधात् प्रतायमानस्तद्विसदृशैः प्रत्ययान्तरैरतिरस्कृतप्रवाहः प्रियतमास्मृतिप्रत्ययोत्पत्तिसंतानस्तन्मयमिव करोति वृत्तिसारूप्यत- श्चैतन्यम् ।

185
लीनेव प्रतिबिम्बितेव लिखितेवोत्कीर्णरूपेव च प्रत्युप्तव च 856 वज्रलेपघटितेवान्तर्निखातेव च ।
सा नश्चेतसि कीलितेव विशिखैश्चेतोभुवः पञ्चभि- श्चिन्तासंततितन्तुजालनिबिडस्यूतेव लग्ना प्रिया ॥857

सदृशेति । सदृशदर्शनादिसचिवात् संस्कारात् स्मृतिर्भवतीत्यर्थः858 । स्मृतेः स्वरूपमाह ज्ञातत्वेनार्थभासिन्यामिति । अनुभवपुरस्कारेण859 तदेकविषया स्मृतिरित्यर्थः । वृत्तिसारूप्यत इति । या चैतन्यस्य तन्मयत्वे वृत्तिः प्रियतमाविषयस्यापि तस्य तादृशी वृत्तिः क्रियत इत्यर्थः ।860

  1. हनु॰ ना॰ ४।९
  2. Pūrṇasarasvatī reads vajralepa instead of vajrasāra. His comments in this context are worth quoting: vajralepaghaṭiteva = pīṭhadeśīye tasmin devatāpratimādivat vajralepākhyena auṣadhena dṛḍhaṃ śliṣṭeva iti.

    lākṣā sarjarasaḥ śaṅkhaḥ sikatā triphalārasaḥ |
    kunduruṣkaṃ ca saṃpiṣṭaṃ vajralepo ’yam īritaḥ ||

    (T.S.S., p. 267)

  3. मालती॰ ५।१०
  4. arthaḥ is missing in T.MS. and Gr.MS.

  5. In M.G.T. the reading is anubhavasaṃskāreṇa.

  6. Pūrṇasarasvatī’s comments in this context are worth quoting: vṛttisārūpyataḥ, vṛttyā=buddhivṛttirūpeṇa jñānena samānarūpatayā ekākāratayety arthaḥ. caitanyam=ātmasvarūpabhūtaṃ jñānam. ayam arthaḥ—buddhivṛttyātmakasya priyāsmṛtipratyayasaṃtānasya caitanyaikākāratayodayamānasya ādhyānaparyāyasya ātmacaitanyaikyam āpadya vilayān nirbhedasvarūpaśūnyam ivānandānubhavamātram avasthānam samādhisaṃjñitaṃ saṃpadyate iti (T.S.S., p. 265).