इदं प्रकरणं दशरूपज्ञानफलम् । 49दशरूपज्ञानं किंफलमित्याह—

आनन्दनिष्यन्दिषु रूपकेषु व्युत्पत्तिमात्रं फलमल्पबुद्धिः ।
योऽपीतिहासादिवदाह साधुस्तस्मै नमः 50स्वादपराङ्मुखाय ॥

अत्र51 केचित्

धर्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च ।
करोति कीर्तिं प्रीतिं च साधुकाव्यनिषेवणम् ॥52
इत्यादिना त्रिवर्गादिव्युत्पत्तिं काव्यफलत्वेनेच्छन्ति । तन्निरासेन स्वसंवेद्यपरमानन्दरूपो53 रसास्वादो दशरूपाणां फलम्, न पुनरितिहासादिवत् त्रिवर्गादिव्युत्पत्तिमात्रमिति दर्शितम् । नम इति सोल्लुण्ठनम्54 ।

उत्तरस्य श्लोकस्य नमस्कारपर्यवसायित्वमसंगतमनुपयुक्तं च मन्वानः संगतेन सोपयोगेन च 55प्रयोजनाप्रयोजनकथनपरत्वेन तं व्याख्यास्यन् तदनुकूलां शङ्कामवतारयति इदमिति । अस्य 56हि प्रकरणस्य दशरूपक6 ज्ञानं फलमुक्तं व्रजति जनो येन वैदग्धीम्57 इति । न च दशरूपज्ञानं स्वतः फलम् । किंतु फलान्तरहेतुतया, पश्वादिवत् । 58तत् फलान्तरं कीदृशमित्यर्थः । तत्प्रदर्शनपरस्य श्लोकस्यायमर्थः । आनन्दनिष्यन्दीनि ह 59त्रिवर्गव्युत्पत्तिकराणि रूपकाणि । तत् तेषां यः साधुरल्पबुद्धिः सन्नितिहासादीनामिव 60त्रिवर्गव्युत्पत्त्यादिमात्रफलतामाह स्वादपराङ्मुखाय तस्मै नम इति । तमिमं तथा व्याख्यास्यन् यैस्त्रिवर्गव्युत्पत्तिमात्रफलत्वमुक्तं तेषां 61मूलं दर्शयति धर्मार्थकामेति । अत्र चतुर्वर्गप्रसङ्गात् पठितस्यापि मोक्षस्याभिनयशून्यतया तमनादृत्य त्रिवर्गपरतामेवास्य ग्रन्थस्य स्वरीत्या दर्शयन् तथैव पठति त्रिवर्गादिव्युत्पत्तिमिति । स्वसंवेद्येति । स्वसंवेद्यो निरतिशयसुखसंविद्रूपः परमानन्दः । स एव रसः । तस्य स्वतः प्रकाशमानस्य आस्वादो नाम अन्तःकरणे प्रतिबिम्बितस्य काव्यार्थेन तत्र संक्रान्तेन संबन्धः । तस्माद् रूपकाणां तथाविधो रसास्वाद एव फलमिति । न केवलं त्रिवर्गादिव्युत्पत्तिरेव किंतु सापीति दर्शितं मात्रशब्देन । ऋजुबुद्धीनुपच्छन्दयति नम इति सोल्लुण्ठनमिति ।

  1. N.S.P. daśarūpaṃ kiṃphalam ?

  2. N.S.P. svādu-.

  3. N.S.P. tatra.

  4. भामहः १।२
  5. A.T.A. paramānandasvarūpo.

  6. N.S.P. solluṇṭham.

  7. Except T.MS. all MSS. read prayojana–kathanaparatvena.

  8. T.MS. omits hi.

  9. १।३
  10. In T.MS. tat is missing.

  11. Tri. MS. reads ānandaniṣyandiṣv iti, and M.G.T. ānandaniṣyandīti. Both read trivargavyutpattikarāṇi ca rūpakāṇi. The particle ha is a prasiddhyarthakāvyaya, and the significance intended here seems to be this: yāni trivargavyutpattikarāṇi rūpakāṇi tāni ānandaniṣyandīni ha, ānandaniṣyandīni iti prasiddhāni (rasikasamāje). evaṃ sati tatrānandāṃśaṃ parityajya yaḥ sādhuḥ vyutpattyādimātraphalatām āha tasmai namaḥ, etc. See Vaijayantī for the meaning of ha.

  12. Tri.MS. reads vyutpattimātraphalatām āha.

  13. Only in T.MS. mūlam seems to be missing.