35 यथा रत्नावल्याम्—

सुसंगता

274भट्टा, अलं संकाए । मए वि भट्टिणो पसाएण कीलिदं एव्व । ता किं कण्णाभरणेण275 । अदो वि मे गरुओ पसाओ, जं कीस तए अहं एत्थ आलिहिअ त्ति कुविआ मे पिअसही साअरिआ । ता पसादीअदु ।276

इत्यनेन सुसंगतावचसा सागरिका मया लिखिता सागरिकया च त्वमिति सूचयता प्रसादोपन्यासेन बीजोद्भेदादुपन्यास इति ।

अथ वज्रम्—

वज्रं प्रत्यक्षनिष्ठुरम् ।

यथा रत्नावल्याम्—

वासवदत्ता
चित्रफलकं निर्दिश्य

277अज्जउत्त, का 278एसा तुह समीवे चिट्ठइ, एदं किं वसंतअस्स विण्णाणं ।279

पुनः 280अज्जउत्त, ममावि एदं चित्तकम्म पेक्खंतीए सीसवेअणा समुप्पण्णा । इत्यनेन वासवदत्तया वत्सराजस्य सागरिकानुरागोद्भेदनात् प्रत्यक्षनिष्ठुराभिधानं वज्रमिति ।

अथ वर्णसंहारः—

281चातुर्वर्ण्योपगमनं वर्णसंहार इष्यते ॥ ३५ ॥

यथा वीरचरिते282 तृतीयेऽङ्के—

परिषदियमृषीणामेष वृद्धो युधाजित् सह नृपतिरमात्यैर्लोमपादश्च वृद्धः ।

  1. ‘भर्तः, अलं शङ्क्या । मयापि भर्तुः प्रसादेन क्रीडितमेव । तत् किं कर्णाभरणेन । असावपि मे गुरुः प्रसादः, यत् कथं त्वयाहमत्रालिखितेति कुपिता मे प्रियसखी सागरिका । तत् प्रसाद्यताम् ।’ इति च्छाया.

  2. N.S.P. kaṇṇābharaṇakeṇa.

  3. पृ॰ ७९
  4. ‘आर्यपुत्र, का एषा तव समीपे तिष्ठति एतत् किं वसन्तकस्य विज्ञानम् ।’ इति च्छाया.

  5. N.S.P. esā vi jā tuhā samīve.

  6. पृ॰ ८९
  7. ‘आर्यपुत्र, ममाप्येतच्चित्रकर्म पश्यन्त्याः शीर्षवेदना समुत्पन्ना ।’ इति च्छाया.

  8. ‘चातुर्वर्णो’ इति पाठः.

  9. A.T.A. Mahāvīracarite.