अथ वज्रम्—

वज्रं प्रत्यक्षनिष्ठुरम् ।

यथा रत्नावल्याम्—

वासवदत्ता
चित्रफलकं निर्दिश्य

277अज्जउत्त, का 278एसा तुह समीवे चिट्ठइ, एदं किं वसंतअस्स विण्णाणं ।279

पुनः 280अज्जउत्त, ममावि एदं चित्तकम्म पेक्खंतीए सीसवेअणा समुप्पण्णा । इत्यनेन वासवदत्तया वत्सराजस्य सागरिकानुरागोद्भेदनात् प्रत्यक्षनिष्ठुराभिधानं वज्रमिति ।

  1. ‘आर्यपुत्र, का एषा तव समीपे तिष्ठति एतत् किं वसन्तकस्य विज्ञानम् ।’ इति च्छाया.

  2. N.S.P. esā vi jā tuhā samīve.

  3. पृ॰ ८९
  4. ‘आर्यपुत्र, ममाप्येतच्चित्रकर्म पश्यन्त्याः शीर्षवेदना समुत्पन्ना ।’ इति च्छाया.