यथोद्देशं लक्षणमाह—

अभूताहरणं छद्म

यथा रत्नावल्याम्—

काञ्चनमाला

288साधु रे अमच्च वसंतअ, साधु । अदिसइदो तुए अमच्चो जोगंधराअणो इमाए संधिविग्गहचिंताए ।289

इत्यादिना प्रवेशकेन गृहीतवासवदत्तावेषायाः सागरिकाया वत्सराजाभिसरणं छद्म विदूषकसुसंगताक्लृप्तं काञ्चनमालानुवादद्वारेण दर्शितमिति अभूताहरणम् ।

  1. ‘साधु रे अमात्य वसन्तक, साधु । अतिशयितस्त्वयामात्यो यौगंधरायणोऽनया संधिविग्रहचिन्तया ।’ इति च्छाया.

  2. पृ॰ ९४