अथ क्रमः—

क्रमः संचिन्त्यमानाप्तिर्

यथा रत्नावल्याम्—

राजा

उपनतप्रियासमागमोत्सवस्यापि मे किमिदमत्यर्थमुत्ताम्यति चेतः । अथवा—301

तीव्रः स्मरसंतापो न तथादौ बाधते यथासन्ने ।
तपति प्रावृषि सुतरामभ्यर्णजलागमो दिवसः ॥302
विदूषकः
आकर्ण्य

303भोदि सागरिए, एसो पिअवअस्सो तुमं एव्व उद्दिसिअ उक्कंठाणिव्भरं मंतेदि । ता निवेदेमि से तुहागमणं ।

इत्यनेन वत्सराजस्य सागरिकासमागममभिलषत एव भ्रान्तसागरिकाप्राप्तिरिति क्रमः ।

  1. पृ॰ ११४
  2. ३।१०
  3. ‘‘भवति सागरिके, एष प्रियवयस्यस्त्वामेवोद्दिश्योत्कण्ठानिर्भरं मन्त्रयति । तन्निवेदयामि तस्मै तवागमनम् ।’ इति च्छाया.