अथाक्षेपः—

गर्भबीजसमुद्भेदादाक्षेपः परिकीर्तितः ॥ ४२ ॥

334यथा रत्नावल्याम्—

राजा

वयस्य, देवीप्रसादनं मुक्त्वा नान्यमत्रोपायं पश्र्यामि ।335

पुनः क्रमान्तरे336 सर्वथा देवीप्रसादनं प्रति निष्प्रत्याशीभूताः स्मः । पुनः337 तत् किमिह स्थितेन देवीमेव गत्वा प्रसादयामि । इत्यनेन देवीप्रसादायत्ता सागरिकासमागमसिद्धिरिति गर्भबीजोद्भेदादाक्षेपः ।

यथा च वेणीसंहारे—

सुन्दरकः

338अहवा किमेत्थ देव्वं उआलहामि । तस्स क्खु एदं णिब्भच्छिदविदुरवअणबीअस्स परिभूदपिदामहहिदोवदेसंकुरस्स सउणिप्पोच्छाहणारूढमूलस्स 339कूडविससाहिणो पंचालीकेसग्गहणकुसुमस्स फलं परिणमेदि ।340

इत्यनेन बीजमेव फलोन्मुखतयाक्षिप्यत इत्याक्षेपः ।

45 एतानि द्वादश गर्भाङ्गानि प्राप्त्याशाप्रदर्शकत्वेनोपनिबन्धनीयानि । एषां च मध्येऽभूताहरणमार्गतोटकाधिबलाक्षेपाणां प्राधान्यम् । इतरेषां यथासंभवं प्रयोग इति साङ्गो गर्भसंधिरुक्तः ।

तत्प्रदर्शकत्वेनोपनिबद्ध्यमानान्यपि गर्भसंध्यङ्गान्येव भवन्ति । तेनोक्तं प्राप्त्याशाप्रदर्शकत्वेनेति ।

  1. There is some difference in the reading in the printed Ratnā:alī.

  2. पृ॰ १२५
  3. पृ॰ १३३
  4. पृ॰ १३५
  5. ‘अथवा किमत्र दैवमुपालभे । तस्य खल्वेतन्निर्भर्त्सितविदुरवचनबीजस्य परिभूतपितामहहितोपदेशाङ्कुरस्य शकुनिप्रोत्साहनारूढमूलस्य कूटविषशाखिनः पाञ्चालीकेशग्रहणकुसुमस्य फलं परिणमति ।’ इति च्छाया.

  6. A.T.A. jūdavisasāhiṇo.

  7. पृ॰ १०३