अथ प्रसङ्गः—

गुरुकीर्तनं प्रसङ्गश्

यथा रत्नावल्याम्—

वसुभूतिः

देव, यासौ सिंहलेश्वरेण स्वदुहिता रत्नावली नामायुष्मती वासवदत्तां लावाणके दग्धामुपश्रुत्य देवाय पूर्वप्रार्थिता सती प्रतिदत्ता ।366

इत्यनेन रत्नावल्या लाभानुकूलाभिजनप्रकाशिना प्रसङ्गाद् गुरुकीर्तनेन प्रसङ्गः ।

तथा मृच्छकटिकायाम्—

चाण्डालकः

367एस सागलदत्तस्स सुओ अज्जविणअदत्तस्स णत्तू चालुदत्तो वावादिदुं वज्झट्‏ठाणं णीअदि । एदेण किल गणिआ वसंतसेणा सुवण्णलोभेण वावदिदत्ति ।368

चारुदत्तः
मखशतपरिपूतं गोत्रमुद्भासितं यत् सदसि निबिडचैत्यब्रह्मघोषैः पुरस्तात् ।
मम निधनदशायां वर्तमानस्य पापै- स्तदसदृशमनुष्यैर्घुष्यते घोषणायाम् ॥369
51 इत्यनेन 370चारुदत्तवधसूचनया अवधाभ्युदयानुकूलं प्रसङ्गाद् गुरुकीर्तनमिति प्रसङ्गः ।

  1. पृ॰ १६८
  2. ‘एष सागरदत्तस्य सुत आर्यविनयदत्तस्य नप्ता चारुदत्तो व्यापादयितुं वध्यस्थानं नीयते । एतेन किल गणिका वसन्तसेना सुवर्णलोभेन व्यापादितेति ।’ इति च्छाया.

  3. पृ॰ २२९
  4. मुच्छ॰ १०।१२
  5. N.S.P. cārudattavadhābhyudayānukūlam.