अथ व्यवसायः—

व्यवसायः स्वशक्त्युक्तिः

यथा रत्नावल्याम्—

ऐन्द्रजालिकः
373किं धरणीए मिअंको आआसे महिहरो जले जलणो ।
मज्झण्हंमि पओसो दाविज्जउ देहि आणत्तिं ॥

अहवा किं बहुणा जंपिएण—

मज्झ पइण्णा एसा भणामि हिअएण जं महसि दट्‏ठुं ।
तं ते दावेमि फुडं गुरुणो मंतप्पहावेण ॥375
इत्यनेनैन्द्रजालिको मिथ्याग्निसंभ्रमोत्थापनेन वत्सराजस्य हृदयस्थसागरिकादर्शनानुकूलां स्वशक्तिमाविष्कृतवान् ।

52 यथा च वेणीसंहारे—

नूनं तेनाद्य वीरेण प्रतिज्ञाभङ्गभीरुणा ।
बध्यते केशपाशस्ते स चास्याकर्षणे क्षमः ॥376
इत्यनेन युधिष्ठिरः स्वदण्डशक्तिमाविष्करोति ।

  1. ‘किं धरण्यां मृगाङ्क आकाशे महीधरो जले ज्वलनः मध्याह्ने प्रदोषो दर्श्यतां देह्याज्ञप्तिम् ॥

    अथवा किं बहुना जल्पितेन ।373

  2. ४।८
  3. मम प्रतिज्ञैषा भणामि हृदयेन यद्वाञ्छसि द्रष्टुम् ।
    तत्ते दर्शयामि स्फुटं गुरोर्मन्त्रप्रभावेण ॥’

    इति च्छाया.

  4. ४।८
  5. रत्ना॰ ४।९
  6. ६।६