दशधैव रसाश्रयम् ॥ ७ ॥

रसानाश्रित्य प्रवर्तमानं दशप्रकारकम् । एवेत्यवधारणं तु70 शुद्धाभिप्रायेण, नाटिकायाः संकीर्णत्वेन वक्ष्यमाणत्वात् ।

8 बहुत्वाद्रसानां बहुवचनेन विगृह्णाति रसानाश्रित्येति । ननु न्यूनाधिकसंख्याव्यवच्छेदफलेन संख्यानेनैव दशेति सिद्धे किमवधारणेन । तत्राह अवधारणं त्विति । शुद्धिर्नाम लक्षणासांकर्यम् । नाटिका हि नाटकप्रकरणलक्षणसंकरादेवोपपद्यत इति ।

  1. tu is given by Bh. Nr., but missing in N.S.P.