अथ प्रसादः—

प्रसादः पर्युपासनम् ।

यथा रत्नावल्याम्417देव, क्षम्यताम् । इत्यादि दर्शितम् ।

यथा च वेणीसंहारे—

भीमः
द्रौपदीमुपसृत्य

देवि पाञ्चालराजतनये, दिष्ट्या वर्धसे रिपुकुलक्षयेण ।418

इत्यनेन द्रौपद्या भीमसेनेनाराधितत्वात् प्रसाद इति ।

  1. पृ॰ १८३
  2. पृ॰ २००