कानि पुनस्तानि षट् प्रयोजनानि—

इष्टस्यार्थस्य रचना गोप्यगुप्तिः प्रकाशनम् ।
रागः प्रयोगस्याश्चर्यं वृत्तान्तस्यानुपक्षयः ॥ ५५ ॥

विवक्षितार्थनिबन्धनं गोप्यार्थगोपनं प्रकाश्यार्थप्रकाशनमभिनयरागवृद्धिश्चमत्कारित्वं444 च काव्यस्येतिवृत्तस्य विस्तर इत्यङ्गैः षट् प्रयोजनानि संपाद्यन्त इति ।

64

नन्वङ्गिनि सति तेनैवालम् । किमङ्गैः । तत्राह इष्टस्येति । विवृणोति विवक्षितार्थेति । अङ्गिना एकेनैव बहूनि परस्परविरुद्धानि च प्रयोजनानि संपादयितुं न शक्यन्ते । तस्माद् बहूनामेव तदङ्गानां बहुविधप्रयोजनसंपादकत्वात् सप्रयोजनत्वमिति । अभिनयरागवृद्धिरिति । अभिनयदर्शनेन सामाजिकानां कुतूहलवृद्धिरित्यर्थः । आश्चर्यमित्यस्य विवरणं काव्यस्य चमत्कारित्वमिति ।

  1. N.S.P. abhineyarāga, etc.