स द्विविधः—शुद्धः, संकीर्णश्चेत्याह—

एकानेककृतः शुद्धः संकीर्णो नीचमध्यमैः ।

एकेन द्वाभ्यां वा मध्यमपात्राभ्यां शुद्धो भवति । मध्यमाधमपात्रैर्युगपत् प्रयोजितः संकीर्ण इति ।

एकं वा द्वे वा यदा मध्ये एव पात्रे तदा विजातीयसंस्पर्शाभावात् न संकीर्णता भवति । नीचपात्रसंस्पर्शात्तु विजातीयानुप्रवेशात् संभवत्येव । तेन यदा एकेन मध्यमपात्रेण एकेन नीचपात्रेण द्वित्वं भवति तदानीमेव सांकर्यमुक्तमित्याह मध्यमाधमपात्रैरिति । एकस्मिन्नर्थेऽप्युक्तिप्रत्युक्तिक्रमात् प्रतिपाद्यमाने सति सांकर्यम् । तेनाह युगपदिति ।