अथ प्रवेशकः—

तद्वदेवानुदात्तोक्त्या नीचपात्रप्रयोजितः ॥ ६० ॥
66 प्रवेशोऽङ्कद्वयस्यान्तः447 शेषार्थस्योपसूचकः ।

तद्वदेवेति भूतभविष्यदर्थज्ञापकत्वमतिदिश्यते । अनुदात्तोक्त्या नीचेन नीचैर्वा पात्रैः प्रयोजित इति विष्कम्भलक्षणापवादः । अङ्कद्वयस्यान्तरिति448 प्रथमाङ्के प्रतिषेध इति ।

चरमोक्तोऽपि प्रवेशकस्तद्वदेवेत्यतिदेशसौकर्याय विष्कम्भानन्तरमेव लक्षितः । तद्विवृणोति तद्वदेवेति । नन्वतिदेशप्राप्तश्चेत् सर्वोऽपि विष्कम्भधर्मः किमुपदेशेनेति विमृशन्तं प्रतीदमेवातिदिश्यत इत्याह तद्वदेवेति भूतभविष्यदर्थज्ञापकत्वमिति । अनुदात्तोक्त्येति पात्रानुगुण्येनोक्तावपि नोदात्तत्वमित्युच्यते449 । नीचपात्रप्रयोजित इत्यनेन एकं द्वे बहूनि वा पात्राणि स्युः तानि सर्वाणि नीचान्येवेति वदन् संकीर्णतामात्रं निवारयति । अङ्कद्वयस्यान्तरिति । अनेन विष्कम्भो हि द्वयोर्मध्यमात्रम् । एतेन प्रथमाङ्केऽपि प्रथमतः प्रस्तावनां कृत्वा उपर्यङ्के क्रियमाणे मध्यमस्तीति स्यादेव । प्रवेशकस्तु पूर्वं निक्षिप्तेऽप्यङ्के एव भवतीति प्रथमाङ्के फलतः प्रतिषिद्धो भवतीत्याह प्रथमाङ्के प्रतिषेध इति ।

  1. ‘अन्ते’ इति पाठः.

  2. N.S.P. ante iti.

  3. Abhinavabhāratī says udāttaṃ saṃskṛtaṃ vacanam (G.O.S. vol. II, p. 424).