अथाङ्कावतारः—

अङ्कावतारस्त्वङ्कान्ते 457पातोऽङ्कस्याविभागतः ॥ ६२ ॥
68
एभिः संसूचयेत् सूच्यं दृश्यमङ्कैः प्रदर्शयेत् ।

यत्र 458प्रविष्टपात्रेणासूचित एव पूर्वाङ्काविच्छिन्नार्थतयैवाङ्कान्तरमापतति प्रवेशकविष्कम्भकादिशून्यः सोऽङ्कावतारः । यथा मालविकाग्निमित्रे प्रथमाङ्कान्ते—

विदूषकः

459तेण हि दुवेवि देवीए पेक्खागेहं गदुअ संगीदोवअरणं कदुअ460 तत्थभवदो दूदं विसज्जेध । अधवा मुदंगसद्दो एव्व णं उत्थावयिस्सदि ।461

इत्युपक्रमे मृदङ्गशब्दश्रवणानन्तरं सर्वाण्येव पात्राणि प्रथमाङ्कप्रक्रान्तपात्रसंक्रान्तिदर्शनं द्वितीयाङ्कादावारभन्त इति प्रथमाङ्कार्थाविच्छेदेनैव द्वितीयाङ्कस्यावतरणादङ्कावतार इति ।

अङ्कावतारलक्षणमुक्तं विवृणोति यत्रेति । यत्र सूचनार्थेन पात्रान्तरप्रवेशेन विना पूर्वाङ्कप्रविष्टपात्राण्येव पात्राणि कृत्वा पूर्वाङ्काविभागेन उत्तराङ्क समापतति सोऽङ्कावतारः462 । अविभागत463 इत्यस्य विवरणम् असूचित एवेति । पृथक् सूचनविरहिण्येव उत्तराङ्कपात्रप्रवेशे 464पूर्वाङ्कस्थसूचनमात्रेण यत्र तेनाविभागतः उत्तराङ्कः समापतति सोऽङ्कावतार इत्यर्थः465 । पूर्वाङ्केणोत्तराङ्कस्याविभागेन पातश्च पात्रैकत्वं च यदि स्यात् तदानीमङ्कभेदो न स्यादिति चेत् इतिवृत्तभेदस्यापि भेदकत्वात् । तथैवोदाहरति यथेत्यादिना ।

  1. ‘पात्राङ्कस्य’ इति पाठः.

  2. N.S.P. praviṣṭamātreṇa sūcitam eva.

  3. ‘तेन हि द्वावपि देव्याः प्रेक्षागेहं गत्वा संगीतकोपकरणं कृत्वा तत्रभवतो दूतं विसर्जयतम् । अथवा मृदङ्गशब्द एवैनमुत्थापयिष्यति ।’ इति च्छाया.

  4. N.S.P. aria.

  5. पृ॰ २१
  6. The lines from here up to ity arthaḥ are missing in T.MS.

  7. Gr.MS. and M.G.T. read avibhāgaḥ.

  8. M.G.T. reads uttarāṅkapātrapraveśapūrvāṅkasūcanamātreṇa.

  9. na is missing in T.MS. M.G.T. reads asmābhiḥ pūrvaṃ tu na dṛśyate. Tri.MS. reads pūrvas tu na pradarśyate. Gr.MS. reads asmābhir vastunaḥ pradarśyate.