नाट्यधर्मप्रसङ्गादाकाशभाषितमाह—

किं ब्रवीष्येवमित्यादि विना पात्रं ब्रवीति यत् ।
श्रुत्वेवानुक्तमप्येकस्तत् स्यादाकाशभाषितम् ॥ ६७ ॥

स्पष्टार्थः ।

नाट्यधर्मप्रसङ्गादिति । स्वयमप्रसक्तस्याप्याकाशभाषितस्य नाट्यधर्माणां प्रसक्तत्वादस्यापि नाट्यधर्मत्वाच्च तत्प्रसङ्गादेतदुच्यत इत्यर्थः ।