अन्यान्यपि नाट्यधर्माणि प्रथमकल्पादीनि कैश्चिदुदाहृतानि । तेषामभारतीयत्वान्नाममात्रप्रसिद्धानां469 केषांचिद् देशभाषात्मकत्वान्नाट्यधर्मत्वाभावाल्लक्षणं नोक्तमित्युपसंहरति—

इत्याद्यशेषमिह वस्तुविभेदजातं470 रामायणादि च विभाव्य बृहत्कथां च ।
आसूत्रयेत् तदनु नेतृरसानुगुण्या- च्चित्रां कथामुचितचारुवचःप्रपञ्चैः ॥ ६८ ॥
इति धनंजयविरचिते दशरूपके प्रथमः प्रकाशः

71 अन्यान्यपीति । न खलु प्रसिद्धं सर्वमस्माभिरुच्यते । किंतु प्रसिद्धत्वे सति नाट्यधर्मतया यद् भरतपरिगृहीतं तदेवोच्यते । प्रथमकल्पादीनां तु प्रसिद्धत्वेऽपि नाट्यधर्मत्वेन भरतपरिग्रहाभावादस्माभिर्नोच्यत इत्यर्थः । प्रथमपरिच्छेदोक्तस्य वस्तुप्रपञ्चस्योपसंहारः क्रियत इत्याह इत्यादीति । अस्यार्थः । उक्तं ह्यस्माभिरितिहासोद्भूतं लोकोद्भूतं च रूपकाणामितिवृत्तं भवतीति । तदासूत्रयन् नाटकादिकर्ता इतिहासं रामायणादि बृहत्कथादि च सम्यगवलोक्य आसूत्रयेत् । आसूत्रयंश्च नायकरसयोरानुगुण्येन वचनौचित्येन चासूत्रयेदिति ।

  1. N.S.P. nāmamālāprasiddhānām.

  2. A.T.A. -viśeṣajātam.