निरुक्त्याधिकारिकं लक्षयति—

अधिकारः फलस्वाम्यमधिकारी च तत्प्रभुः ।
तन्निर्वर्त्यमभिव्यापि वृत्तं स्यादाधिकारिकम् ॥ १२ ॥

फलेन स्वस्वामिसंबन्धोऽधिकारः, फलस्वामी चाधिकारी, 99तेनाधिकारिणा निर्वृत्तं फलपर्यन्ततां नीयमानमितिवृत्तमाधिकारिकम् ।

12 निरुक्त्येति । निर्वचनेन सह आधिकारिकस्य लक्षणं कथयतीत्यर्थः । ननु कारिकायां फलस्वाम्यं तच्छब्देन परामृश्यते । तच्चानुचितमिव प्रतिभाति । तेनाह फलेन स्वस्वामिसंबन्ध इति । फलेन सह स्वस्वामिलक्षणसंबन्धोऽधिकारः । संबन्धो हि गुणप्रधानयोरेव भवति । फलभोक्तुर्गुणभावः कदाचिदपि मा भूदिति तत्प्रभुरित्युक्तमित्याह फलस्वामी चाधिकारीति । फलपर्यन्ततां नीयमानमिति प्रत्ययार्थं निर्वृत्तं विशिनष्टि । कारिकायां निर्वर्त्यमित्यन्तेन निरुक्तकथनम् । अभिव्यापीति लक्षणकथनम् । अयं च निरुक्तक्रमः । अधिकारोऽस्यास्तीति अधिकारी । तस्मादधिकारिशब्दात् ठकि ‘यस्येति च’ इतीकारलोपे वृद्धौ च कृतायामाधिकारिकमिति रूपं भवति ।

  1. N.S.P. tenādhikāreṇādhikāriṇā vā, etc.