तस्येतिवृत्तस्य किं फलमित्याह—

कार्यं त्रिवर्गस्तच्छुद्धमेकानेकानुबन्धि च ॥ १६ ॥

धर्मार्थकामाः फलम् । तच्च शुद्धमेकैकमेकानुबन्धं द्व्यनुबन्धं115 वा ।

अनेकशब्दस्य एकस्मादन्यद् अनेकमिति व्युत्पत्तिमङ्गीकृत्याप्याह द्वयनुबन्धं वेति । अर्थकामसहितो धर्मः कार्यम् । धर्मकामसहितोऽर्थः कार्थम् । धर्मार्थसहितः कामः कार्यमिति नेयम् ।

  1. N.S.P. dvitryanubandhaṃ vā.