अथ प्रयत्नः—

प्रयत्नस्तु तदप्राप्तौ व्यापारोऽतित्वरान्वितः ॥ २० ॥

तस्य फलस्याप्राप्तौ 132सत्यामुपाययोजनादिरूपश्चेष्टाविशेषः प्रयत्नः । यथा रत्नावल्यामालेख्याभिलेखनादिर्वत्सराजसमागमोपायः—

सागरिकः

133तहवि मे णत्थि134 अण्णो दंसणोवाओ त्ति जहतह आलिहिअ जहासमीहिअं करिस्सं ।135

इत्यादिना प्रतिपादितः ।

  1. N.S.P. omits satyām.

  2. ‘तथापि मे नास्त्यन्यो दर्शनोपाय इति यथातथालिख्य यथासमीहितं करिष्यामि ।’ इति च्छाया.

  3. There are different readings in the edition of the Ratnā:alī to which I had access.

  4. रत्ना० पृ० ४६