अथास्याः कोपचेष्टा—

सावहित्थादरोदास्ते रतौ धीरेतरा क्रुधा ।
संतर्ज्य ताडयेन्मध्या मध्याधीरेव तं वदेत् ॥ १९ ॥

सहावहित्थेनाकारसंवरणेनादरेण चोपचाराधिक्येन वर्तते सा सावहित्थादरा । रतावुदासीना क्रुधा कोपेन भवति ।

सावहित्थेतिसूत्रस्यायमर्थः । धीरा क्रुद्धा 580 सावहित्थादरा सती रतावुदास्ते । इतरा=अधीरा क्रुद्धा दयितं संतर्ज्य ताडयेत् । प्रगल्भमध्या=धीराधीरा तु मध्याधीरेव581 तं वदेदिति । तथैव व्याचष्टे सावहित्थेत्यादिना ।

  1. For avahitthā see Daśarūpaka IV.29.

  2. For madhyādhīrā see II.17.