अथ विरहोत्कण्ठिता—

चिरयत्यव्यलीके तु 597विरहोत्कण्ठितोन्मनाः ।

यथा—

सखि स विजितो 598वीणावाद्यैः कयाप्यपरस्त्रिया पणितमभवत् ताभ्यां तत्र क्षपाललितं ध्रुवम् ।
107 कथमितरथा शेफालीषु स्खलत्कुसुमास्वपि प्रसरति नभोमध्येऽपीन्दौ प्रियेण विलम्ब्यते ॥

  1. ‘विरहोत्कण्ठिता मता’ इति पाठः.
  2. A.T.A. vīṇādyūte kayā, etc.