अथ योषिदलंकाराः—

यौवने सत्त्वजाः स्त्रीणामलंकारास्तु विंशतिः ।

यौवने सत्त्वोद्भूता विंशतिरलंकाराः स्त्रीणां भवन्ति ।

तत्र—

भावो हावश्च हेला च त्रयस्तत्र शरीरजाः ॥ ३० ॥
शोभा कान्तिश्च दीप्तिश्च माधुर्यं च प्रगल्भता ।
औदार्यं धैर्यमित्येते सप्त भावा अयत्नजाः ॥ ३१ ॥

तत्र भावहावहेलास्त्रयोऽङ्गजाः । 614शोभा कान्तिर्दीप्तिर्माधुर्यं प्रागल्भ्यमौदार्यं धैर्यमित्ययत्नजाः सप्त ।

लीला विलासो विच्छित्तिर्विभ्रमः किलकिञ्चितम् ।
मोट्टायितं कुट्टमितं बिब्बोको ललितं तथा ॥ ३२ ॥
विहृतं चेति विज्ञेया दश भावाः स्वभावजाः

112 तानेव निर्दिशति—

निर्विकारात्मकात् सत्त्वाद् भावस्तत्राद्यविक्रिया ॥ ३३ ॥

तत्र विकारहेतौ सत्यप्यविकारात्मकं सत्त्वम्615 । यथा कुमारसंभवे 616

श्रुताप्सरोगीतिरपि क्षणेऽस्मिन् हरः प्रसंख्यानपरो बभूव ।
आत्मेश्वराणां न हि जातु विघ्नाः समाधिभेदप्रभवो भवन्ति ॥
तस्मादविकाररूपात् सत्त्वात् यः प्रथमो विकोऽन्तर्विपरिवर्तिबीजस्योच्छूनतेव स भावः । यथा—
दृष्टिः सालसतां बिभर्ति न शिशुक्रीडासु बद्धादरा श्रोत्रे प्रेषयति प्रवर्तितसखीसंभोगवार्तास्वपि ।
पुंसामङ्कमपेतशङ्कमधुना नारोहति प्राग् यथा बाला नूतनयौवनव्यतिकरावष्टभ्यमाना शनैः ॥

यथा वा कुमारसंभवे—

हरस्तु किंचित्परिलुप्तधैर्यश्चन्द्रोदयारम्भ इवाम्बुराशिः ।
उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि ॥617

यथा वा ममैव—

तं च्चिअ वअणं ते च्चेअ लोअणे जोव्वणं पि तं च्चेअ ।
अण्णा अणंगलच्छी अण्णं च्चिअ किं पि साहेइ ॥

तासत्त्वज्ञाने हि सात्त्विकज्ञानम् । तेनाह निर्विकारात्मकात् सत्त्वादिति । रागद्वेषाभ्यामनुपहतं हि मनः सत्त्वम् । तथैव व्याचष्टे विकारहेतौ सत्यपीति । अन्तर्विपरिवर्तीति । आत्मनि विपरिवर्तिनो बीजस्य यःप्रथमो विकारः उच्छूनतासंज्ञकः तत्सदृशः सत्त्वस्य प्रथमो विकारो भाव इति । तं च्चिअ ।

113 तदेव वचनं ते एव लोचने यौवनं च तदेव ।
अन्यानङ्गलक्ष्मीरन्यदेव किमपि शंसति618 ॥

  1. This line of the Avaloka is missing in A.T.A.

  2. N.S.P. avikārakaṃ sattvam.

  3. ३।४०
  4. ३।६७
  5. The previous printed text of DR gives as yauvanam api, instead of yauvanaṃ ca, and sādhayati instead of śaṃsati.